व्याख्या
अयं फलेन पुत्ररूपफलेन शून्यो रहितो गृहस्थाश्रमरूपो गार्हस्थ्यस्यरूपो धर्म-
पादपो धर्मवृक्षो मां सुतरामत्यन्तं दुनोति परितापयति । यथा वृक्षः फलेन शून्यो निष्फलत्वाय कल्पते तथैवाऽयं गृहस्थाश्रमोऽपि । यद्यस्मात्कारणादधुनाऽप्यद्या वध्यपि त्वयि भवत्यां सुतः पुत्र अभिधानं नाम यस्य तं पुत्रनामकमात्मनः प्रतिबिम्बं प्रतिफलं थिलोकयामि न पश्यामि । ‘आत्मा वं जायते पुत्रः’ इति वचनात् । अद्यापि पुत्रोत्पत्तिर्न जातेत्यर्थः । अत्ररूपलकाङ्कारः ।
भाषा
यह फलरहित गृहस्थाश्रमरूपीवृक्ष मुझे अत्यन्त पीड़ित करता है। क्यों कि अभीतक तुमले मेरा प्रतिबिम्ब स्वरूप पुत्र उत्पन्न भया हुवा नहीं दीख पडता है । अर्थात् तुम को मेरा प्रतिबिम्ब स्वरूप पुत्र नहीं हुआ है ।
श्रलक्षएए बालमृगक्षिा लक्ष्यते' न किञ्चिदङ्गेषु तवेदृशः परम् ।
पुराकृतः पुएयविपर्ययो मम ध्रुवं फलर्द्धिप्रतिबन्धकस्त्वयि ॥३०॥
अन्वयः
(हे)बालमृगाक्षि तव श्रङ्लगेषु किञ्चित् श्रलक्षए न लक्ष्यते परं त्वयि ईदृशः फलर्द्धिप्रतिबन्धकः मम पुराकृतः पुण्यविपर्ययः ध्रुवम् ।
व्याख्या हे बालमृगाक्षि बालकुरङ्गनयने तव अङेग्षु शरीरावयवेषु किञ्चिद्यत्किञ्चि
दप्यलक्षणं कुलक्षणं पुत्रोत्पत्तिप्रतिबन्धकं वन्ध्यात्वलक्षणं न लक्ष्यते दृश्यते । परं किन्तु त्वयि भवत्यामीदृश इत्थम्भूतः फलर्द्धिप्रतिबन्धकः पुत्ररूपफलसम्पत्ति बाधको ममैव पराकृतः पर्वजन्मकृतः पूण्यविपर्ययः सुकृतवैपरीत्यं पापमित्यर्थः ।