यत्पूर्वभूपालगुणान्प्रजानां विस्मारयामास निजैश्चरित्रैः ॥१०१॥
अन्वय:
चालुक्यगोत्रोद्भववत्सलः अपि कृती यः एक अन्यायं कृतवान् यत्
निजैः चरित्रैः प्रजानां पूर्वभूपालगुणान् विस्मारयामास ।
व्याख्या
चालुक्यगोत्रे चालुक्यवंशे उद्भव उत्पत्तिर्येषां राज्ञां तेषु वत्सलः स्निग्धो
भक्त इत्यर्थः स्वकुलोत्पन्नपूर्ववर्तिनृपाणां भक्तोऽपि ‘लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः' इत्यमरः । कृती कार्यकुशलः पुण्यवाँश्च यो राजाऽऽ- हवमल्लदेव एकमन्यायमनुचितकार्य कृतवान् यद्यस्मात्कारणान्निजैस्वीयैश्चरित्रै- रुत्कृष्टगुणैः प्रजानां जनानां षष्ठी 'शेषे—इत्यनेन' प्रजानामित्यत्र सम्बन्धसामान्ये षष्ठी । पूर्वभूपालगुणान्स्ववंशजपूर्ववर्तिनृपगुणान् विस्मारयामास । अस्य गुणोत्कर्षेण भूतपूर्वनृपा विस्मृता इत्यर्थः । एकस्याऽन्यायकार्यस्य विधानादादौ निन्दाया: प्रतीतिः पर्यवसाने तु राज्ञः प्रभावप्रशंसा प्रतीयते । अत्र व्याजस्तुति रलङ्कारः । ‘व्याजस्तुतिर्मुखे निन्दास्तुतिर्धा रूढिरन्यथेति' ।
भाषा
पुण्यात्मा, कार्यकुशल उस राजा ने चालुक्यवंशीय प्राचीन राजाओं में श्रद्धा
भक्ति रखते हुवे भी एक यह अन्याय किया था कि अपने उत्कृष्ट गुणों से प्रजाओं को पूर्ववर्ती राजाओं के गुणों का विस्मरण करा दिया था । अर्थात् पूर्ववर्ती राजाओं से यह आहवमल्लदेव अधिक गुणी था ।
विशीर्णकण कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन ।