सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इव सुभटः प्रादुरासीदित्यन्वयः । यशः स्मितञ्च शुभ्र भवतीति कविसम्प्रदायः । तस्मिन् जातमात्र एव शत्रुयशांसि विनश्यन्ति स्मेति भावः । अधरे पल्लवा- भेदादूपकम् । क्षारेण यशसः साम्यादुपमा । क्षीररूपयशाः पानानन्तरं समुत्था- नस्योत्प्रेक्षणात्क्रियोत्प्रेक्षा । अत एतेषां संकरः ।

            भाषा

अधिक अभिमान से उत्पन्न भई हुई (श्वेत) मुस्कुराहट से विकसित अधरोष्ठ से शोभित (वह वीर) मानो दूध के समान शत्रुओं के उज्वल यशों को पीकर प्रकट भया हुआ (ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।)

      सुवर्णनिर्माणमभेद्यमत्रैः स्वभावसिद्धं कवचं दधानः ।
      जयश्रियः काञ्चनविष्टराभं समुद्वहनुन्नतमंसकूटम् ॥५१॥
          अन्वयः

अस्रः अभेद्य सुवर्णनिर्माणं स्वभावसिद्धं कवचं दधानः जयश्रियः काञ्चनविष्टराभम् उन्नतम् अंसकूटं समुद्वहन् (सुभटो विधातुश्रुलुकादावि- रासीदित्यनेन सम्बन्धः ।)

         व्याख्या

अस्त्रैबर्वाणैरन्यास्त्रैर्वाऽभेद्य भेत्तुमशक्यं सुवर्णस्य काञ्चन्नाभस्य सुन्दरदेहवर्णस्य निर्माणं निर्मितिमेव स्वभावसिद्धं प्राकृतिकं कवचं तनुत्रं ‘अथ तनुत्रं वर्म दंशनम् । उरच्छदः कंकटको जगरः कवचोऽस्त्रियाम्' इत्यमरः । दधानो धारयन्, पक्षे सुवर्णेन हेम्ना निर्माणं यस्यैवम्भूतं कवचम् । श्लिष्टरूपकम् । जयश्रियो विजयलक्ष्म्या उपवेशनाय काञ्चनस्य स्वर्णस्य विष्टरमासनं तदाभेवाऽऽभा