शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण ५

विकिस्रोतः तः

४.६.५ ग्रहोपासनाब्राह्मणम्

एष वै ग्रहः । य एष तपति येनेमाः सर्वाः प्रजा गृहीतास्तस्मादाहुर्ग्रहान्गृह्णीम इति चरन्ति ग्रहगृहीताः सन्त इति - ४.६.५.१


वागेव ग्रहः । वाचा हीदं सर्वं गृहीतं किमु तद्यद्वाग्ग्रहः - ४.६.५.२

नामैव ग्रहः । नाम्ना हीदं सर्वं गृहीतं किमु तद्यन्नाम ग्रहो बहूनां वै नामानि विद्माथ नस्तेन ते न गृहीता भवन्ति - ४.६.५.३

अन्नमेव ग्रहः । अन्नेन हीदं सर्वं गृहीतं तस्माद्यावन्तो नोऽशनमश्नन्ति ते नः सर्वे गृहीता भवन्त्येषैव स्थितिः - ४.६.५.४

स य एष सोमग्रहः । अन्नं वा एष स यस्यै देवताया एतं ग्रहं गृह्णाति सास्मै देवतैतेन ग्रहेण गृहीता तं कामं समर्धयति यत्काम्या गृह्णाति स उद्यन्तं वादित्यमुपतिष्ठतेऽस्तं यन्तं वा ग्रहोऽस्यमुमनयार्त्या गृहाणासावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समर्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते - ४.६.५.५