शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण ७

विकिस्रोतः तः

४.६.७ पुरश्चरणोपनिषत्

त्रयी वै विद्या । ऋचो यजूंषि सामानीयमेवऽर्चोऽस्यां ह्यर्चति योऽर्चति स वागेवऽर्चो वाचा ह्यर्चति योऽर्चति सोऽन्तरिक्षमेव यजूंषि द्यौः सामानि सैषा त्रयी विद्या सौम्येऽध्वरे प्रयुज्यते - ४.६.७.१

इममेव लोकमृचा जयति । अन्तरिक्षं यजुषा दिवमेव साम्ना तस्माद्यस्यैकाविद्यानूक्ता स्यादन्वेवापीतरयोर्निर्मितं विवक्षेतेममेव लोकमृचा जयत्यन्तरिक्षं यजुषा दिवमेव साम्ना - ४.६.७.२

तद्वा एतत् । सहस्रं वाचः प्रजातं द्वे इन्द्रस्तृतीये तृतीयं विष्णुर्ऋचश्च सामानि चेन्द्रो यजूंषि विष्णुस्तस्मात्सदस्यृक्सामाभ्यां कुर्वन्त्यैन्द्रं हि सदः - ४.६.७.३

अथैतं विष्णुं यज्ञम् । एतैर्यजुर्भिः पुर इवैव बिभ्रति तस्मात्पुरश्चरणं नाम - ४.६.७.४

वागेवऽर्चश्च सामानि च । मन एव यजूंषि सा यत्रेयं वागासीत्सर्वमेव तत्राक्रियत सर्वं प्राज्ञायताथ यत्र मन आसीन्नैव तत्र किं चनाक्रियत न प्राज्ञायत नो हि मनसा ध्यायतः कश्चनाजानाति - ४.६.७.५

ते देवा वाचमब्रुवन् । प्राची प्रेहीदं प्रज्ञपयेति सा होवाच किं मे ततः स्यादिति यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते तत्त इति तस्माद्यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते तद्वाचः सा प्राची प्रैत्सैतत्प्राज्ञपयदितीदं कुरुतेतीदं कुरुतेति - ४.६.७.६

तस्मादु कुर्वन्त्येवऽर्चा हविर्धाने । प्रातरनुवाकमन्वाह सामिधेनीरन्वाह ग्राव्णोऽभिष्टौत्येवं हि सयुजावभवताम् - ४.६.७.७

तस्मादु कुर्वन्त्येव सदसि । यजुषौदुम्बरीमुच्छ्रयन्ति सदः संमिन्वन्ति धिष्ण्यानुपकिरन्त्येवं हि सयुजावभवताम् - ४.६.७.८

तद्वा एतत्सदः परिश्रयन्ति । एतस्मै मिथुनाय तिर इवेदं मिथुनं चर्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येव द्रवत आग एव कुर्वाते तस्मादद्वारेण सदः प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्यमाणं पश्येदेवं तत्कामं द्वारेण देवकृतं हि द्वारम् - ४.६.७.९

एवमेवैतद्धविर्धानं परिश्रयन्ति । एतस्मै मिथुनाय तिर इवेदं मिथुनं चर्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येव द्रवत आग एव कुर्वाते तस्मादद्वारेण हविर्धानं प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्यमाणम्पश्येदेवं तत्कामं द्वारेण देवकृतं हि द्वारम् - ४.६.७.१०

तद्वा एतद्वृषा साम । योषामृचं सदस्यध्येति तस्मान्मिथुनादिन्द्रो जातस्तेजसो वै तत्तेजो जातं यदृचश्च साम्नश्चेन्द्रऽ इन्द्र इति ह्येतमाचक्षते य एष तपति - ४.६.७.११

अथैतद्वृषा सोमः । योषा अपो हविर्धानेऽध्येति तस्मान्मिथुनाच्चन्द्रमा जातोऽन्नाद्वै तदन्नं जातं यदद्भ्यश्च सोमाच्च चन्द्रमाश्चन्द्रमा ह्येतस्यान्नं य एष तपति तद्यजमानं चैवैतज्जनयत्यन्नाद्यं चास्मै जनयत्यृचश्च साम्नश्च यजमानं जनयत्यद्भ्यश्च सोमाच्चास्मा अन्नाद्यम् - ४.६.७.१२

यजुषा ह वै देवाः । अग्रे यज्ञं तेनिरेऽथर्चाथ साम्ना तदिदमप्येतर्हि यजुषैवाग्रे यज्ञं तन्वतेऽथर्चाथ साम्ना यजो ह वै नामैतद्यद्यजुरिति - ४.६.७.१३

यत्र वै देवाः । इमा विद्याः कामान्दुदुह्रे तद्ध यजुर्विद्यैव भूयिष्ठान्कामान्दुदुहे सा निर्धीततमेवास सा नेतरे विद्ये प्रत्यास नान्तरिक्षलोक इतरौ लोकौ प्रत्यास - ४.६.७.१४

ते देवा अकामयन्त । कथं न्वियं विद्येतरे विद्ये प्रतिस्यात्कथमन्तरिक्षलोक इतरौ लोकौ प्रतिस्यादिति - ४.६.७.१५

ते होचुः । उपांश्वेव यजुर्भिश्चराम तत एषा विद्येतरे विद्ये प्रतिभविष्यति ततोऽन्तरिक्षलोक इतरौ लोकौ प्रतिभविष्यतीति - ४.६.७.१६

तैरुपांश्वचरन् । आप्याययन्नेवैनानि तत्तत एषा विद्येतरे विद्ये प्रत्यासीत्ततोऽन्तरिक्षलोक इतरौ लोकौ प्रत्यासीत्तस्माद्यजूंषि निरुक्तानि सन्त्यनिरुक्तानि तस्मादयमन्तरिक्षलोको निरुक्तः सन्ननिरुक्तः - ४.६.७.१७

स य उपांशु यजुर्भिश्चरति । आप्याययत्येवैनानि स तान्येनमापीनान्याप्याययन्त्यथ य उच्चैश्चरति रूक्षयत्येवैनानि स तान्येनं रूक्षाणि रुक्षयन्ति - ४.६.७.१८

वागेवऽर्चश्च सामानि च । मन एव यजूंषि स य ऋचा च साम्ना च चरन्ति वाक्ते भवन्त्यथ ये यजुषा चरन्ति मनस्ते भवन्ति तस्मान्नानभिप्रेषितमध्वर्युणा किं चन क्रियते यदैवाध्वर्युराहानुब्रूहि यजेत्यथैव ते कुर्वन्ति य ऋचा कुर्वन्ति यदैवाध्वर्युराह सोमः पवत उपावर्तध्वमित्यथैव ते कुर्वन्ति ये साम्ना कुर्वन्ति नो ह्यनभिगतं मनसा वाग्वदति - ४.६.७.१९

तद्वा एतन्मनोऽध्वर्युः । पुर इवैव चरति तस्मात्पुरश्चरणं नाम पुर इव ह वै श्रिया यशसा भवति य एवमेतद्वेद - ४.६.७.२०

तद्वा एतदेव पुरश्चरणम् । य एष तपति स एतस्यैवावृता चरेद्ग्रहं गृहीत्वैतस्यैवावृतमन्वावर्तेत प्रतिगीर्यैतस्यैवावृतमन्वावर्तेत ग्रहं हुत्वैतस्यैवावृतमन्वावर्तेत स हैष भर्ता स यो हैवं विद्वानेतस्यावृता शक्नोति चरितुं शक्नोति हैव भार्यान्भर्तुम् - ४.६.७.२१