शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ८/ब्राह्मण ५

विकिस्रोतः तः

३.८.५

सोऽत्युपयजति । यज्ञं गच्छ स्वाहेत्यापो वै यज्ञ आपो रेतो रेत एवैतत्सिञ्चति - ३.८.५.१

सोमं गच्छ स्वाहेति । रेतो वै सोमो रेत एवैतत्सिञ्चति - ३.८.५.२

दिव्यं नभो गच्छ स्वाहेति । आपो वै दिव्यं नभ आपो रेतो रेत एवैतत्सिञ्चति - ३.८.५.३

अग्निं वैश्वानरं गच्छ स्वाहेति । इयं वै पृथिव्यग्निर्वैश्वानरः सेयम्प्रतिष्ठेमामेवैतत्प्रतिष्ठामभिप्रजनयति - ३.८.५.४

अथ मुखं विमृष्टे । मनो मे हार्दि यच्छेति तथो होपयष्टात्मानं नानुप्रवृणक्ति - ३.८.५.५

अथ जाघन्या पत्नीः संयाजयन्ति । जघनार्द्धो वै जाघनी जघनार्द्धाद्वै योषायै प्रजाः प्रजायन्ते तत्प्रैवैतज्जनयति यज्जाघन्या पत्नीः संयाजयन्ति - ३.८.५.६

अन्तरतो देवानां पत्नीभ्योऽवद्यति । अन्तरतो वै योषायै प्रजाः प्रजायन्त उपरिष्टादग्नये गृहपतय उपरिष्टाद्वै वृषा योषामधिद्रवति - ३.८.५.७

अथ हृदयशूलेनावभृथं यन्ति । पशोर्ह वा आलभ्यमानस्य हृदयं शुक्समभ्यवैति हृदयाद्धृदयशूलमथ यच्छृतस्य परितृन्दन्ति तदलंजुषं तस्मादु परितृद्यैव शूलाकुर्यात्तत्त्रिः प्रच्युते पशौ हृदयं प्रवृह्योत्तमम्प्रत्यवदधाति - ३.८.५.८

अथ हृदयशूलं प्रयच्छति । तन्न पृथिव्यां परास्येन्नाप्सु स यत्पृथिव्याम्परास्येदोषधीश्च वनस्पतींश्चैषा शुक्प्रविशेद्यदप्सु परास्येदप एषा शुक्प्रविशेत्तस्मान्न पृथिव्यां नाप्सु - ३.८.५.९

अप एवाभ्यवेत्य । यत्र शुष्कस्य चार्द्रस्य च संधिः स्यात्तदुपगूहेद्यद्यु ऽअभ्यवायनाय ग्लायेदग्रेण यूपमुदपात्रं निनीय यत्र शुष्कस्य चार्द्रस्य च संधिर्भवति तदुपगूहति नापो नौषधीर्हिंसीरिति तथा नापो नौषधीर्हिनस्ति धाम्नोधाम्नो राजंस्ततो वरुण नो मुञ्च यदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्चेति तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति - ३.८.५.१०

अथाभिमन्त्रयते । सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यत्र वा एतेन प्रचरन्त्यापश्च ह वा अस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति तदु ताभिर्मित्रधेयं कुरुते तथो हैनं ताः पुनः प्रविशन्त्येषो तत्र प्रायश्चित्तिः क्रियते स वै नाग्नीषोमीयस्य पशोः करोति नाग्नेयस्य वशाया एवानूबन्ध्यायै तां हि सर्वोऽनु यज्ञः संतिष्ठत एतदु हास्याग्नीषोमीयस्य च पशोराग्नेयस्य च हृदयशूलेन चरितं भवति यद्वशायाश्चरन्ति - ३.८.५.११



[सम्पाद्यताम्]

टिप्पणी

http://vipin110012.tripod.com/pur_index28/shoola.htm शूलोपरि टिप्पणी