देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०९

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०९
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १० →



ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम्

व्यास उवाच
 कदाचिदथ काले तु दशपञ्चसमा विभो ।
 प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥ १ ॥
 अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् ।
 गहे गृहे शवानां तु संख्या कर्तुं न शक्यते ॥ २ ॥
 केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः ।
 शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः ॥ ३ ॥
 बालकं बालजननी स्त्रियं पुरुष एव च ।
 भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः ॥ ४ ॥
 ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् ।
 तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति ॥ ५ ॥
 सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना ।
 गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना ॥ ६ ॥
 सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः ।
 एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः ॥ ७ ॥
 सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः ।
 पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः ॥ ८ ॥
 पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः ।
 दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः ॥ ९ ॥
 आसनाद्युपचारैश्च पूजयामास वाडवान् ।
 चकार कुशलप्रश्नं ततश्चागमकारणम् ॥ १० ॥
 ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः ।
 दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः ॥ ११ ॥
 युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा ।
 का चिन्ता भवतां विप्रा मयि दासे विराजति ॥ १२ ॥
 धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः ।
 येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥ १३ ॥
 ते सर्वे पादरजसा पावयन्ति गृहं मम ।
 को मदन्यो भवेद्‌धन्यो भवतां समनुग्रहात् ॥ १४ ॥
 स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः ।
 व्यास उवाच
 इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः ॥ १५ ॥
 गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः ।
 नमो देवि महाविद्ये वेदमातः परात्परे ॥ १६ ॥
 व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि ।
 साम्यावस्थात्मिके मातर्नमो ह्रींकाररूपिणि ॥ १७ ॥
 स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् ।
 भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम् ॥ १८ ॥
 तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् ।
 सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम् ॥ १९ ॥
 प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् ।
 सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम् ॥ २० ॥
 सर्वभूतारणे देवि क्षमस्व परमेश्वरि ।
 इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥ २१ ॥
 पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम् ।
 उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि ॥ २२ ॥
 तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति ।
 इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला ॥ २३ ॥
 अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः ।
 षड्रसा विविधा राजंस्तृणानि विविधानि च ॥ २४ ॥
 भूषणानि च दिव्यानि क्षौमानि वसनानि च ।
 यज्ञानां च समारम्भाः पात्राणि विविधानि च ॥ २५ ॥
 यद्यदिष्टमभूद्‌राजन् मुनेस्तस्य महात्मनः ।
 तत्सर्वं निर्गतं तस्माद्‌गायत्रीपूर्णपात्रतः ॥ २६ ॥
 अथाहूय मुनीन्सर्वान्मुनिराड् गौतमस्तदा ।
 धनं धान्यं भूषणानि वसनानि ददौ मुदा ॥ २७ ॥
 गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः ।
 निर्गतान्यज्ञसम्भारान्स्रुक्स्रुवप्रभृतीन्ददौ ॥ २८ ॥
 ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः ।
 स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम् ॥ २९ ॥
 यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते ।
 तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥ ३० ॥
 देवाङ्‌गनासमा दाराः शोभन्ते भूषणादिभिः ।
 मुनयो देवसदृशा वस्त्रचन्दनभूषणैः ॥ ३१ ॥
 नित्योत्सवः प्रववृते मुनेराश्रममण्डले ।
 न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित् ॥ ३२ ॥
 स मुनेराश्रमो जातः समन्ताच्छतयोजनः ।
 अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः ॥ ३३ ॥
 तांश्च सर्वान्पुपोषायं दत्त्वाभयमथात्मवान् ।
 नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः ॥ ३४ ॥
 सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः ।
 सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः ॥ ३५ ॥
 अहो अयं नः किल कल्पपादपो
 मनोरथान्पूरयति प्रतिष्ठितः ।
 नोचेदकाण्डे क्व हविर्वपा वा
 सुदुर्लभा यत्र तु जीवनाशा ॥ ३६ ॥
 इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्‌गवान् ।
 पुत्रवन्मुनिराड् गर्वगन्धेन परिवर्जितः ॥ ३७ ॥
 गायत्र्याः परमं स्थानं चकार मुनिसत्तमः ।
 यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका ॥ ३८ ॥
 त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः ।
 अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते ॥ ३९ ॥
 मध्याह्ने युवती वृद्धा सायंकाले तु दृश्यते ।
 तत्रैकदा समायातो नारदो मुनिसत्तमः ॥ ४० ॥
 रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् ।
 निषसाद सभामध्ये मुनीनां भावितात्मनाम् ॥ ४१ ॥
 गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः ।
 कथाश्चकार विविधा यशसो गौतमस्य च ॥ ४२ ॥
 ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः ।
 जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥ ४३ ॥
 श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः ।
 धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥ ४४ ॥
 इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ ।
 ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः ॥ ४५ ॥
 तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः ।
 अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः ॥ ४६ ॥
 उत्कर्षं तु मुनेः श्रुत्वासूयया खेदमागताः ।
 यथास्य न यशो भूयात्कर्तव्यं सर्वथैव हि ॥ ४७ ॥
 काले समागते पश्चादिति सर्वैस्तु निश्चितम् ।
 ततः कालेन कियताप्यभूद्‌वृष्टिर्धरातले ॥ ४८ ॥
 सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम ।
 श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः ॥ ४९ ॥
 गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे ।
 धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी ॥ ५० ॥


कालस्य महिमा राजन् वक्तुं केन हि शक्यते ।
 गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप ॥ ५१ ॥
 जगाम सा च शालायां होमकाले मुनेस्तदा ।
 हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे ॥ ५२ ॥
 गौर्हतानेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः ।
 होमं समाप्य मुनिराङ्‌ विस्मयं परमं गतः ॥ ५३ ॥
 समाधिमीलिताक्षः संश्चिन्तयामास कारणम् ।
 कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥ ५४ ॥
 दधार कोपं परमं प्रलये रुद्रकोपवत् ।
 शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः ॥ ५५ ॥
 वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे ।
 भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः ॥ ५६ ॥
 वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५७ ॥
 शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५८ ॥
 मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५९ ॥
 देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६० ॥
 देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६१ ॥
 देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६२ ॥
 शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६३ ॥
 रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६४ ॥
 श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६५ ॥
 अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६६ ॥
 नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६७ ॥
 स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६८ ॥
 गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६९ ॥
 कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च ।
 भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ७० ॥
 श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः ।
 शङ्‌खचक्राद्यङ्‌किताश्च भवत ब्राह्मणाधमाः ॥ ७१ ॥
 कापालिकमतासक्ता बौद्धशास्त्ररताः सदा ।
 पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ ७२ ॥
 पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा ।
 भार्याविकयिणस्तद्वद्‍भवत ब्राह्मणाधमाः ॥ ७३ ॥
 वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा ।
 धर्मविक्रयिणस्तद्वद्‍भवत ब्राह्मणाधमाः ॥ ७४ ॥
 पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते ।
 बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ ७५ ॥
 मातृकन्यागामिनश्च भगिनीगामिनस्तथा ।
 परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ ७६ ॥
 युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा ।
 मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥ ७७ ॥
 किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी ।
 गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ ७८ ॥
 अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः ।
 व्यास उवाच
 वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः ॥ ७९ ॥
 जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः ।
 प्रणनाम महादेवीं सापि देवी परात्परा ॥ ८० ॥
 ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह ।
 अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ ८१ ॥
 उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा ।
 भुजङ्‌गायार्पितं दुग्धं विषायैवोपजायते ॥ ८२ ॥
 शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी ।
 इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥ ८३ ॥
 ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः ।
 गायत्री विस्मृता सर्वैस्तदद्‌भुतमिवाभवत् ॥ ८४ ॥
 ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा ।
 प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि ॥ ८५ ॥
 नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः ।
 प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ ८६ ॥
 प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् ।
 करुणापूर्णहृदयो मुनिस्तान्समुवाच ह ॥ ८७ ॥
 कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः ।
 न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ ८८ ॥
 ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् ।
 मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ ८९ ॥
 मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा ।
 तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्‌कजम् ॥ ९० ॥
 व्यास उवाच
 इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः ।
 प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ ९१ ॥
 एतस्मात्कारणाद्‌राजन् गते कृष्णे तु धीमति ।
 कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥ ९२ ॥
 भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये ।
 सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥ ९३ ॥
 वेदभक्तिविहीनाश्च पाखण्डमतगामिनः ।
 अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ ९४ ॥
 मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् ।
 तप्तमुद्राङ्‌किताः केचित्कामाचाररताः परे ॥ ९५ ॥
 कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे ।
 पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥ ९६ ॥
 लम्पटाः परदारेषु दुराचारपरायणाः ।
 कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ ९७ ॥
 तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी ।
 न विष्णूपासना नित्या न शिवोपासना तथा ॥ ९८ ॥
 नित्या चोपासना शक्तेर्यां विना तु पतत्यधः ।
 सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ ॥ ९९ ॥
 अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् ।
 यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ १०० ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे
 ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥

वर्गःदेवीभागवतपुराणम्