देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०४

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०३ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०४
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०५ →



गायत्रीहृदयम्

 नारद उवाच
 भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
 कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १ ॥
 अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
 यद्धारणाद्‍भवेत्युण्यं गायत्रीजपतोऽखिलम् ॥ २ ॥
 श्रीनारायण उवाच
 देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
 तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३ ॥
 विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
 ध्यात्वा तस्यास्त्वथाङ्‌गेषु ध्यायेदेताश्च देवताः ॥ ४ ॥
 पिण्डब्रह्माण्डयोरैक्याद्‍भावयेत्स्वतनौ तथा ।
 देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५ ॥
 नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
 ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६ ॥
 अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् ।
 गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७ ॥
 गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी ।
 पूर्वोक्तेन प्रकारेण कुर्यादङ्‌गानि षट्क्रमात् ।
 आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८ ॥
 न्यासः
 द्यौर्मूर्ध्नि दैवतम् । दन्तपङ्‌क्तावश्विनौ । उभे सन्ध्ये
 चोष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु
 बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये
 पर्जन्यः । आकाशमुदरम् । नाभावन्तरिक्षम् । कट्यो-
 रिन्द्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलास-
 मलये ऊरू । विश्वेदेवा जान्वोः । जङ्‌घायां कौशिकः ।
 गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पत-
 योऽङ्‌गुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि ।
 अस्थिषु ग्रहाः । असृङ्‌मांसमृतवः । संवत्सरा वै निमिषम् ।
 अहोरात्रावादित्यश्चन्द्रमाः । प्रवरां दिव्यां गायत्रीं
 सहस्रनेत्रां शरणमहं प्रपद्ये । ॐ तत्सवितुर्वरेण्याय
 नमः । ॐ तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः ।
 तत्प्रातरादित्यप्रतिष्ठायै नमः । प्रातरधीयानो रात्रिकृतं
 पापं नाशयति । सायमधीयानो दिवसकृतं पापं
 नाशयति । सायंप्रातरधीयानो अपापो भवति ।
 सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति ।
 अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो
 भवति । अभोज्यभोजनापूतो भवति । अचोष्यचोष-
णात्पूतो भवति । असाध्यसाधनात्पूतो भवति ।
 दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो
 भवति । पङ्‌क्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो
 भवति । अथाब्रह्मचारी ब्रह्मचारी भवति । अनेन
 हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशत-
सहस्रगायत्र्या जप्यानि फलानि भवन्ति । अष्टौ
 ब्राह्मणान्सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं
 नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः
 प्रमुच्यत इति । ब्रह्मलोके महीयते । इत्याह भगवान् श्रीनारायणः ।

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ ४ ॥

वर्गःदेवीभागवतपुराणम्