देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०९
वेदव्यासः‎
अध्यायः १० →

चाक्षुषमनुवृत्तवर्णनम्

श्रीनारायण उवाच
 अथातः श्रूयतां चित्रं देवीमाहाक्त्यमुत्तमम् ।
 अङ्‌गपुत्रेण मनुना यथाऽऽप्तं राज्यमुत्तमम् ॥ १ ॥
 अङ्‌गस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः ।
 षष्ठः सुपुलहं नाम ब्रह्मर्षिं शरणं गतः ॥ २ ॥
 ब्रह्मर्षे त्वामहं प्राप्तः शरणं प्रणतार्तिहन् ।
 शाधि मां किङ्‌करंस्वामिन् येनाहं प्राप्नुयां श्रियम् ॥ ३ ॥
 मेदिन्याश्चाधिपत्यं मे स्याद्यथावदखण्डितम् ।
 अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम् ॥ ४ ॥
 सन्ततिश्चिरकालीनाप्यखण्डं वय उत्तमम् ।
 अन्तेऽपवर्गलाभश्च स्यात्तथोपदिशाद्य मे ॥ ५ ॥
 इत्येवं वचनं तस्य मनोः कर्णपथेऽभवत् ।
 प्रत्युवाच मुनिः श्रीमान् देव्याः संराधनं परम् ॥ ६ ॥
 राजन्नाकर्णय वचो मम श्रोत्रसुखं महत् ।
 शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत् ॥ ७ ॥
 चाक्षुष उवाच
 कीदृगाराधनं देव्यास्तस्याः परमपावनम् ।
 केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि ॥ ८ ॥
 मुनिरुवाच
 राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम् ।
 वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा ॥ ९ ॥
 त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि ।
 न बीजं वाग्भवादन्यदस्ति राजन्यनन्दन ॥ १० ॥
 जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम् ।
 एतस्य जापात्पाद्मोऽपि सृष्टिकर्ता महाबलः ॥ ११ ॥
 विष्णुर्यज्जपतः सृष्टिपालकः परिकीर्तितः ।
 महेश्वरोऽपि संहर्ता यज्जपादभवन्नृप ॥ १२ ॥
 लोकपालास्तथान्येऽपि निग्रहानुग्रहक्षमाः ।
 यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः ॥ १३ ॥
 एवं त्वमपि राजन्य महेशीं जगदम्बिकाम् ।
 समाराध्य महर्द्धिं च लप्स्यसेऽचिरकालतः ॥ १४ ॥
 एवं स मुनिवर्येण पुलहेन प्रबोधितः ।
 अङ्‌गपुत्रस्तपस्तप्तुं जगाम विरजां नदीम् ॥ १५ ॥
 स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः ।
 बीजस्य पृथिवीपालः शीर्णपर्णाशनो विभुः ॥ १६ ॥
 प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः ।
 तृतीयेऽब्दे पवनभुक् तस्थौ स्थाणुरिवाचलः ॥ १७ ॥
 एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः ।
 वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता ॥ १८ ॥
 तथा च देव्याः परमं मन्त्रं सज्जपतो रहः ।
 प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी ॥ १९ ॥
 तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी ।
 उवाचाङ्‌गतनूजं तं प्रसन्ना ललिताक्षरम् ॥ २० ॥
 देव्युवाच
 पृथिवीपाल ते यत्स्याच्चिन्तितं परमं वरम् ।
 तद्‌ ब्रूहि सम्प्रदास्यामि तपसा ते सुतोषिता ॥ २१ ॥
 चाक्षुष उवाच
 जानासि देवदेवेशि यत्प्रार्थ्यं मनसेप्सितम् ।
 अन्तर्यामिस्वरूपेण तत्सर्वं देवपूजिते ॥ २२ ॥
 तथापि मम भाग्येन जातं यत्तव दर्शनम् ।
 ब्रवीमि देवि मे देहि राज्यं मन्वन्तराश्रितम् ॥ २३ ॥
 देव्युवाच
 दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम ।
 पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः ॥ २४ ॥
 राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः ।
 एवं दत्त्वा परं देवी मनवे वरमुत्तमम् ॥ २५ ॥
 जगामादर्शनं सद्यस्तेन भक्त्या च संस्तुता ।
 सोऽपि राजा मनुः षष्ठः प्रसादात्तु तदाश्रयात् ॥ २६ ॥
 बभूव मनुमान्योऽसौ सार्वभौमसुखैर्वृतः ।
 पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः ॥ २७ ॥
 देवीभक्ताश्च शूराश्च महाबलपराक्रमाः ।
 अन्यत्र माननीयाश्च महाराज्यसुखास्पदाः ॥ २८ ॥
 एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः ।
 बभूव मनुवर्योऽसौ जगामान्ते शिवापदम्॥ २९ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रे चाक्षुषमनुवृत्तवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥