देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १०
वेदव्यासः‎
अध्यायः ११ →

सुरथनृपतिवृमत्तवर्णनम्

श्रीनारायण उवाच
 सप्तमो मनुराख्यातो मनुर्वैवस्वतः प्रभुः ।
 श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम् ॥ १ ॥
 स च वैवस्वतमनुः परदेव्याः प्रसादतः ।
 तथा तत्तपसा चैव जातो मन्वन्तराधिपः ॥ २ ॥
 अष्टमो मनुराख्यातः सावर्णिः प्रथितः क्षितौ ।
 स जन्मान्तर आराध्य देवीं तद्वरलाभतः ॥ ३ ॥
 जातो मन्वन्तरपतिः सर्वराजन्यपूजितः ।
 महापराक्रमी धीरो देवीभक्तिपरायणः ॥ ४ ॥
 नारद उवाव
 कथं जन्मान्तरे तेन मनुनाराधनं कृतम् ।
 देव्याः पृथिव्युद्‍भवायास्तन्ममाख्यातुमर्हसि ॥ ५ ॥
 श्रीनारायण उवाच
 चैत्रवंशसमुद्‌भूतो राजा स्वारोचिषेऽन्तरे ।
 सुरथो नाम विख्यातो महाबलपराक्रमः ॥ ६ ॥
 गुणग्राही धनुर्धारी मान्यः श्रेष्ठः कविः कृती ।
 धनसंग्रहकर्ता च दाता याचकमण्डले ॥ ७ ॥
 अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली ।
 तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः ॥ ८ ॥
 शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः ।
 रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि ॥ ९ ॥
 तदा स सुरथो नाम राजा सैन्यसमावृतः ।
 निर्ययौ नगरात्स्वीयात्सर्वशत्रुनिबर्हणः ॥ १० ॥
 तदा स समरे राजा सुरथः शत्रुभिर्जितः ।
 अमात्यैर्मन्त्रिभिश्चैव तस्य कोशगतं धनम् ॥ ११ ॥
 हृतं सर्वमशेषेण तदातप्यत भूमिपः ।
 निष्कासितश्च नगरात्स राजा परमद्युतिः ॥ १२ ॥
 जगामाश्वमथारुह्य मृगयामिषतो वनम् ।
 एकाकी विजनेऽरण्ये बभ्रामोद्‌भ्रान्तमानसः ॥ १३ ॥
 मुनेः कस्यचिदागत्य स्वाश्रमं शान्तमानसः ।
 प्रशान्तजन्तुसंयुक्तं मुनिशिष्यगणैर्युतम् ॥ १४ ॥
 उवास कञ्चित्कालं स राजा परमशोभने ।
 आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेधसः ॥ १५ ॥
 एकदा स महीपालो मुनिं पूजावसानके ।
 काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः ॥ १६ ॥
 मुने मम मनोदुःखं बाधते चाधिसम्भवम् ।
 ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च सन्ततम् ॥ १७ ॥
 शत्रुभिर्निर्जितस्यापि हृतराज्यस्य सर्वशः ।
 तथापि तेषु मनसि ममत्वं जायते स्फुटम् ॥ १८ ॥
 किं करोमि क्व गच्छामि कथं शर्म लभे मुने ।
 त्वदनुग्रहमाशासे वद वेदविदां वर ॥ १९ ॥
 मुनिरुवाच
 आकर्णय महीपाल महाश्चर्यकरं परम् ।
 देवीमाहात्म्यमतुलं सर्वकामप्रदं परम् ॥ २० ॥
 जगन्मयी महामाया विष्णुब्रह्महरोद्‍भवा ।
 सा बलादपहृत्यैव जन्तूनां मानसानि हि ॥ २१ ॥
 मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप ।
 सा सृजत्यखिलं विश्वं सा पालयति सर्वदा ॥ २२ ॥
 संहारे हररूपेण संहरत्येव भूमिप ।
 कामदात्री महामाया कालरात्रिर्दुरत्यया ॥ २३ ॥
 विश्वसंहारिणी काली कमला कमलालया ।
 तस्यां सर्वं जगज्जातं तस्यां विश्वं प्रतिष्ठितम् ॥ २४ ॥
 लयमेष्यति तस्यां च तस्मात्सैव परात्परा ।
 तस्या देव्याः प्रसादश्च यस्योपरि भवेन्नृप ।
 स एव मोहमत्येति नान्यथा धरणीपते ॥ २५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे सुरथनृपतिवृमत्तवर्णनं नाम दशमोऽध्यायः ॥ १० ॥