देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०१

विकिस्रोतः तः
← स्कन्धः ०१० देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०१
वेदव्यासः‎
अध्यायः ०२ →

मनुकृतं देवीस्तवनम्

नारद उवाच
नारायण धराधार सर्वपालनकारण ।
भवतोदीरितं देवीचरितं पापनाशनम् ॥ १ ॥
मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी ।
यदाकारेण कुरुते प्रादुर्भावं महेश्वरी ॥ २ ॥
तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् ।
यथा च येन येनेह पूजिता संस्तुतापि हि ॥ ३ ॥
मनोरथान्पूरयति भक्तानां भक्तवत्सला ।
तन्नः शुभूषमाणानां देवीचरितमुत्तमम् ॥ ४ ॥
वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् ।
श्रीनारायण उवाच
आकर्णय महर्षे त्वं चरितं पापनाशनम् ॥ ५ ॥
भक्तानां भक्तिजननं महासम्पत्तिकारकम् ।
जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः ॥ ६ ॥
आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः ।
स चतुर्मुख आसाद्य प्रादुर्भावं महामते ॥ ७ ॥
मनुं स्वायम्भुवं नाम जनयामास मानसात् ।
स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः ॥ ८ ॥
शतरूपां च तत्पत्‍नीं जज्ञे धर्मस्वरूपिणीम् ।
स मनुः क्षीरसिन्धोश्च तीरे परमपावने ॥ ९ ॥
देवीमाराधयामास महाभाग्यफलप्रदाम् ।
मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः ॥ १० ॥
उपासते स्म तां देवीं वाग्भवं स जपन् रहः ।
निराहारो जितश्वासो नियमव्रतकर्शितः ॥ ११ ॥
एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः ।
शतवर्षं जितः कामः क्रोधस्तेन महात्मना ॥ १२ ॥
जे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि ।
तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी ॥ १३ ॥
उवाच वचनं दिव्यं वरं वरय भूमिप ।
तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः ॥ १४ ॥
वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् ।
मनुरुवाच
जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १५ ॥
मान्ये पूज्ये जगद्धात्रि सर्वमङ्‌गलमङ्‌गले ।
त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ १६ ॥
वैकुण्ठः पालयत्येव हरः संहरते क्षणात् ।
शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ १७ ॥
प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् ।
यादसामधिपः पाशी पालनं मादृशामपि ॥ १८ ॥
कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः ।
हुतभुङ्‌नैर्ऋतो वायुरीशानः शेष एव च ॥ १९ ॥
त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः ।
अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ २० ॥
तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे ।
वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ २१ ॥
तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि ।
ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ २२ ॥
तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे ।
जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ २३ ॥
ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि ।
पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ २४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥ १ ॥