देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०२
वेदव्यासः‎
अध्यायः ०३ →

विन्ध्योपाख्यानवर्णनम्

श्रीदेव्युवाच
 भूमिपाल महाबाहो सर्वमेतद्‍भविष्यति ।
 यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप ॥ १ ॥
 अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा ।
 वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम् ॥ २ ॥
 राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि ।
 मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत् ॥ ३ ॥
 एवं वरान्महादेवी तस्मै दत्त्वा महात्मने ।
 पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम् ॥ ४ ॥
 योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्‍भवमहर्षिणा ।
 भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन् ॥ ५ ॥
 सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी ।
 बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम ॥ ६ ॥
 ऋषय ऊचुः
 कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् ।
 भानुमार्गावरोधं च किमर्थं कृतवानसौ ॥ ७ ॥
 कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् ।
 प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद ॥ ८ ॥
 न हि तृप्यामहे साधो त्वदास्यगलितामृतम् ।
 देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते ॥ ९ ॥
 सूत उवाच
 आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् ।
 महावनसमूहाढ्यो महापादपसंवृतः ॥ १० ॥
 सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः ।
 मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि ॥ ११ ॥
 वानराः शशका ऋक्षाः शृगालाश्च समन्ततः ।
 विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः ॥ १२ ॥
 नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः ।
 अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः ॥ १३ ॥
 एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् ।
 देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः ॥ १४ ॥
तं दृष्ट्वा स नगो मङ्‌क्षु तूर्णमुत्थाय सम्भ्रमात् ।
 पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत् ॥ १५ ॥
 सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् ।
 विन्ध्य उवाच
 देवर्षे कथ्यतां जात आगमः कुत उत्तमः ॥ १६ ॥
 तवागमनतो जातमनर्घ्यं मम मन्दिरम् ।
 तव चङ्‌क्रमणं देवाभयार्थं हि यथा रवेः ॥ १७ ॥
 अपूर्वं यन्मनोवृत्तं तद्‌ ब्रूहि मम नारद ।
 नारद उवाच
 ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ ॥ १८ ॥
 तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् ।
 सर्वेषां लोकपालानां भवनानि समन्ततः ॥ १९ ॥
 मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च ।
 इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत् ॥ २० ॥
 उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् ।
 उच्छ्वासकारणं किं तद्‌ ब्रूहि देवऋषे मम ॥ २१ ॥
 इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः ।
 अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम् ॥ २२ ॥
 गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल ।
 सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम् ॥ २३ ॥
 एवमेव च कैलासः शिवस्यावसथः प्रभुः ।
 पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः ॥ २४ ॥
 निषधः पर्वतो नीलो गन्धमादन एव च ।
 पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः ॥ २५ ॥
 यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् ।
 सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः ॥ २६ ॥
 आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् ।
 सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः ॥ २७ ॥
 एवंमानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः ।
 अस्तु नैतावता कृत्यं तपोबलवतां नग ।
 प्रसङ्‌गतो मयोक्तं ते गमिष्यामि निजं गृहम् ॥ २८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्योपाख्यानवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥