भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०२

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०१ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०२
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०३ →

आदित्यपूजाविधिवर्णनम्

विष्णुरुवाच ।। ।।
मण्डलस्थं सुरश्रेष्ठ विधिना येन भास्करम् ।।
पूजयेन्मानवो भक्त्या स विधिः कथ्यतां मम ।। १ ।।
पूजयेद्विधिना येन भास्करं पद्मसंभवम् ।।
मूर्तिस्थं सर्वगं देवं पूजितं ससुरासुरैः ।।२।।
।। ब्रह्मोवाच ।।
साधु कृष्ण महाबाहो साधु पृष्टोऽस्मि सुव्रत ।।
शृणु चैकमनाः पूर्वं मूर्तिस्थं येन पूजयेत् ।। ३ ।।
इषे त्वेति च मन्त्रेण उत्तमांगं सदार्चयेत् ।।
अग्निमीळेति मन्त्रेण पूजयेद्दक्षिणे करे ।।४।।
अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत् ।।
आजिघ्रेति च मंत्रेण पूजयेत्पुष्पमालया ।।५।।
योगयोगति मंत्रेण मुक्तपुष्पांजलिं क्षिपेत् ।।
समुद्रं गच्छ यत्प्रोक्तमनेन स्नापयेद्रविम् ।। ६ ।।
इमं मे गंगेति यत्प्रोक्तमनेनापि च भूधर ।।
समुद्रज्येति मन्त्रेण कषायैः परिरूपयेत्।। ७ ।।
स्नापयेत्पयसा कृष्ण आप्यायस्वेति मन्त्रतः ।।
दधिक्राव्णेति वै दध्ना स्नापयेद्दधिवद्रविम् ।। ८ ।।
तेजोऽसि शुक्रमिति च घृतेन स्नपनं परम्।।
या औषधीति मंत्रेण स्नानमोषधिभिः स्मृतम् ।। ९ ।।
उद्वर्तयेत्ततो द्विपदाभिः सुराधिप ।।
मानस्तोकेति मन्त्रेण युगपत्स्नानमाचरेत्।।१०।।
विष्णोरराटमन्त्रेण स्नापयेद्गन्धवारिणा।।
सौवर्णेन तु मंत्रेण अर्घ्यं पाद्यं निवेदयेत्।।११।।
इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत्।।
वेदोऽसीति हि मंत्रेण उपवीतं प्रदापयेत्।।१२।।
बृहस्पतेति मन्त्रेण दद्याद्वस्त्राणि भानवे।।
येन श्रियं प्रकुर्वाणां पुष्पमालां प्रयोजयेत्।।१३।।
धूरसीति च मन्त्रेण धूपं दद्यात्सगुग्गुलम्।।
समिद्धोंऽजनमंत्रेण अंजनं तु प्रयच्छति।।१४।।
युञ्जानीति च मंत्रेण भानुं रोचनयार्चयेत् ।।
आरक्तकं च वै कुर्याद्दीर्घायुष्ट्वाय वै बुधः ।। १५ ।।
सहस्रशीर्षा पुरुषो रविं सरसि पूजयेत् ।।
संभावयेति मंत्रेण पद्मनेत्रे परामृशेत् ।। १६ ।।
विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत् ।।
श्रीश्च ते लक्ष्मीश्चेति मंत्रेणानेन पूजयेत् ।। १७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्म आदित्यपूजाविधिवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ।। २०२ ।।