भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०१

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०० भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०१
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०२ →

सूर्यमण्डलदेवतार्चनविधिवर्णनम्

।। व्यास उवाच ।।
अथ त्वां कथयिष्येहं संवादं धर्मवर्द्धनम् ।।
सुरज्येष्ठस्य देवस्य केशवस्य च भारत ।। १ ।।
मनोवत्यां सुरज्येष्ठं सुखासीनं चतुर्मुखम्।।
प्रणम्य शिरसा विष्णुरिदं वचनमब्रवीत् ।। २ ।।
।। विष्णुरुवाच ।। ।।
भगवन्देवदेवेश सुरज्येष्ठ चतुर्मुख ।।
आराधनविधिं ब्रूहि भास्करस्य महात्मनः ।। ३ ।।
कथमाराधयेद्भानुं मंडलस्थं दिवस्पतिम् ।।
ब्रूहि मेऽत्र गणं देवं येनाहं पूजये विभुम् ।। ४ ।।
साधुसाधु महाबाहो साधु पृष्टोऽ स्मि भूधर ।।
शृणु चैकमना देव भास्कराराधने विधिम् ।।५।।
खषोल्कं निर्मलं देवं पूजयित्वा विभावसुम् ।।
पूर्वे मध्ये तथाग्नेय्यां विरूपाक्षे प्रभं जने ।। ६ ।।
क्रमेण यावदीशानीं हृदि बीजेन विन्यसेत् ।।
खषोल्कासनमेतत्तु विन्यस्तं मानवोत्तमैः ।। ७।।
ततस्तस्योपरिष्टात्तु हृदयेन तु कंचु कम् ।।
सप्तावरणसंयुक्तमष्टपत्रं सकर्णिकम् ।। ८ ।।
केसरालंबदेवत्वं पंचवर्णं महाद्भुतम् ।।
परीक्षाभूमिविधिवच्छास्त्रोक्तविधिना कृतम् ।। ९ ।।
दीप्तादि पूर्वादारभ्य यावदीशानगोचरम् ।।
न्यसेच्छक्त्यष्टकं मंत्री मध्यतः सर्वतोमुखीम् ।। 1.201.१० ।।
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।।
अमोघा विद्युता चैव नवमी सर्वतोमुखी ।। ११ ।।
तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि।।
उपस्थानं तु वै कृत्वा मंत्रेणानेन सुव्रत ।। १२ ।।
उदुत्यं जातवेदसमिति मंत्रः प्रकीर्तितः ।।
अग्निं दूतेन मंत्रेण अनेन विश्वसुव्रत ।।१३।।
आकृष्णेन रजसा मंत्रेणानेन चार्चयेत् ।।
हंसःशुचिषदिति च मंत्रेणार्कं प्रपूजयेत् ।। १४ ।।
अपप्तेतारकं देवीदीप्तानेन प्रपूजयेत् ।।
अदृश्रमस्यकेतवः सूक्ष्मां देवीं समर्चयेत् ।। १५।।
तरणिर्विश्वदर्शेति अनेन सततं जयम् ।।
प्रत्यङ्देवानां विशेति भद्रां देवीं समर्चयेत् ।। १६ ।।
विभूतिमर्चयेन्नित्यं येनापावकचक्षसा ।।
विद्यामेषीति मंत्रेण ह्यनेन विमलां सदा ।। १७ ।।
अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रत।।
नवमीं पूजयेद्देवीं सततं सर्वतोमुखीम् ।। १८ ।।
मंत्रेणानेन कृष्णस्य उद्वयंतमितीह च ।।
उद्यन्नद्यमित्रहोमं प्रथममक्षरं व्रजेत्।। १९ ।।
द्वितीयं पूजयेत्कृष्णं शुक्लेषु हरिमाहवे ।।
उदगादयमादित्यो अनेनापि तृतीयकम् ।। 1.201.२० ।।
तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम् ।।
महितोमहितोयेति पंचर्चं परिकीर्तयेत् ।। २१ ।।
हिरण्यगर्भः समवर्तता षष्ठं बीजं प्रकीर्तितम् ।।
सविता पश्चातात्पुरस्तात्सप्तमं देवसत्तम ।। २२ ।।
एवं बीजानि विन्यस्य आदित्यं स्थापयेद्द्विजः ।।
आदित्यं स्थापयेद्ध्याने सर्वेषां पूजयेद्बुधः ।। २३ ।।
बाह्यतो देवशार्दूल इन्द्रादीनां समंततः।।
रक्तवर्णं महातेजं सितपद्मोपरि स्थितम्।।२४।।
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम्।।
द्विभुजं चैकचक्रं च सौम्यं पद्मधनुष्करम्।।२५।।
वर्तुलं तेन बिंबेन मध्यस्थमतितेजसम्।।
आदित्यस्य त्विदं रूपं सर्वलोकेषु पूजितम्।।२६।।
ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मंडलाश्रितम्।।२७।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यमण्डलदेवतार्चनविधिवर्णनं नामैकाधिक द्विशततमोऽध्यायः ।। २०१ ।।