wi.25. 17 –] [1०4 राजा । आचरितमेतदभ्युदयकालेषु । तदेहि तावत् । ॥ इति परिक्रामन्ति । 18 ॥ ततः प्रविशत्यदित्या सहासनौपविष्टो मारीचः ।। मारीचः । । राजानमवलोक्य ॥ दाक्षायणि । पुत्रस्य ते रणशिरस्यमग्रयायी दुःषन्त भुवनस्य इत्यभिहितो भर्ता । चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥ अदितिः । संभावणीअप्पहावा खु से आकिदी । मातलिः । भूपते । एतौ पुत्रमीतिपिशुनेन चक्षुषा दिवौकसां पितरावा 3युष्मन्तमेवावलोकयतः । तदुपसर्प । राजा । मातले । प्राहुर्दादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । यस्मिन्नात्मभुवः परो ऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥ २७ ॥ मातलिः । अथ किम् । राजा । । प्रणिपत्य ॥ उभाभ्यामपि वां वासवनियोज्यो दुःषन्तः प्रणमति । 3मारीचः । वत्स । चिरं पृथिवीं पालय । अदितिः । जाद । अप्पदिरधो होहि । शकुन्तला पुत्रसहिता पादयोः पतति । मारीचः ।. वत्से । आखण्डलसमो भर्ता जयन्तमतिमः सुतः । आशीरन्या न ते योज्या पौलोमीमङ्गला भव ।। २८ ।।
पृष्ठम्:Kalidasa's Śakuntala.djvu/१२४
दिखावट