पृष्ठम्:Kalidasa's Śakuntala.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1०5] सप्तमा ऽः [-vi.31.4 अदितिः । जाद । भतुणो बहुमदा होहि । अअं च दीहाऊ उहअपक्वं अलंकरेदु । ता एध । उवसिध । सर्व उपविशन्ति ॥ 3 मारीचः । । एकैकं निर्दिशन् ॥ दिष्टया शकुन्तला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ २९ ॥ राजा । भगवन् । मागभिप्रेतसिद्धिः पश्चाद्दर्शनमित्यपूर्वः खलु वो ऽनुग्रहः । पश्यतु भगवान् । उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधि स्तव प्रसादस्य पुरस्तु संपदः ॥ ३० ॥ मातलिः । आयुष्मन् । एवं विश्धगुरवः प्रसीदन्ति । राजा । भगवन् । इमामाज्ञाकरीं वो गान्धर्वेण विधिनोपयम्य कस्य 3चित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्मत्यादिशन्नपराद्धो ऽस्मि तत्र भवतो युष्मद्रोत्रस्य कण्वस्य । पश्चादेनामडुरीयकदर्शनादूढपूर्वामवगतो ऽस्मि । तचित्रमिव मे मतिभाति । यथा गजे साधुसमक्षरूपे कस्मिन्नपि क्रामति संशयः स्यात् । पदानि दृष्टाथ भवेत्प्रतीति स्तथाविधो मे मनसो विकारः ॥ ३१ ॥ मारीचः । वत्स । अलमात्मापराधशङ्कया । संमोहो ऽपि त्वय्युपपन्न एव । श्रूयताम् । 3राजा । अवहितो ऽस्मि । मारीचः । यदैवाप्सरस्तीर्थावतरणात्मत्याख्यानविरूबां शकुन्तलामादाय [Digitized by (Google