पृष्ठम्:Kalidasa's Śakuntala.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.31.5-] अभिज्ञानशकुन्तले [1०6 दाक्षायणीमुपगता मेनका तदैव ध्यानादवगतवृत्तान्तो ऽस्मि दुर्वासस 6शापादियं तपस्विनी सहधर्मचारिणा प्रत्यादिष्टति । स चाडुरीयकदर्शना वसानः शापः । राजा । । सोच्छासमात्मगतम् ॥ एष वचनीयान्मुक्तो ऽस्मि । 9शकुन्तला । । खगतम् ॥ दिटुिआ । अकामपश्चादेसी अजउत्तो । ण उण सचं मं सुमरेदि । अध वा ण सुदो भवे अअं सुण्णहिअ आए मए सावो जदो सहीहिं अचादरेण संदिदं भतुणो अली अअं दंसेसि ति । 12मारीचः । वत्से । विदितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः करणीयः । पश्य । शापादसि प्रतिहता स्मृतिलोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव । छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ३२ ॥ राजा । वथाह भगवान् । मारीचः । वत्स । कश्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा 3 दिक्रियः पुत्र एष शाकुन्तलेयः । राजा । भगवन् । अत्र खलु मे वंशप्रतिष्ठा । मारीचः । तथा शौर्यखभावेन चक्रवर्तिनमेनमवगच्छतु भवान् । पश्य । रथेनानुद्धातस्तिमितगतिनोत्तीर्णजलधिः पुरा सप्तद्वीपामवति वसुधामप्रतिरथः । इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ ३३ ॥ राजा । भगवत्कृतसंस्कारे ऽस्मिन्सर्वमाशंसे । अदितिः । इमाए दुहिदि आए मणोरधसंपत्तीए कण्णो वि दाव विण्णादत्थो [Digitized by (Google