पृष्ठम्:Kalidasa's Śakuntala.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

99] सप्तमो ऽङ्कः संयमी किमिति जन्मदस्त्वया । सत्त्वसंश्रयसुखो ऽपि दूष्यते कृष्णसपेशिशुनेव चन्दनः ॥ १८ ॥ तापसी । भद्दमुह । ण क्खु एसो इसिकुमारओ । राजा । आाकारसदृशं चेष्टितमेवास्य कथयति । स्थानमत्ययात्तु वयमतर्किण । 3॥ यथाभ्यर्थितमनुतिष्ठन्बालकस्य स्पर्शमनुभूयात्मगतम् ॥ अनेन कस्यापि कुलाङ्करेण स्पृष्टषु गात्रेषु सुखं ममैवम् । कां नितिं चेतसि तस्य कुर्या द्यस्यायमङ्गात्कृतिनः प्रसूतः ॥ १९ ॥ तापसी । । उभैौ विलोक्य ॥ अच्छरीअं अच्छरीअं । राजा । आयें । किमेिव । 3तापसी । इमस्स बालअस्स असंबद्धे वि भद्दमुहे संवादिणी आकिदि त्ति विम्हिद म्हि । अवि अ वामसीलो वि भविअ अवरिचिदस्स ण दे पडिलोमो संबुक्तो । 6राजा । । बालकमुलापयन् ॥ आयें । न चेन्मुनिकुमारको ऽवं तत्को ऽस्य व्यपदेशः । तापसी । पोरवो ति । 9राजा । । खगतम् । कथमेकान्वयो । ऽयमस्माकम् । अतः खलु संभाव्यते । ॥ प्रकाशम् ॥ अस्त्येतत्कुलव्रतं पौरवाणाम् । भवनेषु सुधासितेषु पूर्व क्षितिरक्षार्थमुशन्ति ये निवासम् । विहितैकयतिव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥ २० ॥ कथं पुनरात्मगत्या मानुषाणामेष विषयः । तापसी । जधा भद्दमुहो भणादि । अच्छरासंबन्धेण उण इमस्स बालअस्स