पृष्ठम्:Kalidasa's Śakuntala.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi. 20. 3-] अभिज्ञानशकुन्तले 3 जणणा दवगुरुणा तवावण पसूदा । राजा । ॥ आत्मगतम् ॥ हन्त । द्वितीयमिदमाश्वासजननम् ॥ प्रकाशम् ॥ अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्री । 6तापसी । को तस्स धम्मदारपरिचाइणो णामं कित्तइस्सदि । राजा । । खगतम् ॥ कथमियं कथा मामेव लक्षीकरोति । यदि तावदस्य शिशोर्नामतो मातरं पृच्छेयम् । । विचिन्त्य ॥ अथ वा अनार्यः परदा 9रव्यवहारः । प्रविश्य मृन्मयमयूरहता तापसी । सव्वदमण । पेक्ख सउन्तलावण्णं । बालः । ॥ सदृष्टिविक्षेपम् ॥ कहिं शा मे अय्युआ । । उभे प्रहसिते ॥ 12प्रथमा । णामसारिस्सेण उवच्छन्दिो मादिवच्छलो । द्वितीया । इमस्स मोरस्स रमणीअत्तणं पेक्ख त्ति भणिदो सि । राजा । । खगतम् ॥ कथं शकुन्तलेल्यस्य मातुराख्या । अथ वा सन्ति 15 पुनर्नामसादृश्यानि । अपि नाम मृगतृष्णिकेव नायमन्ते प्रस्तावो विषादाय बालः । अन्तिके । लोअदि मे चडुलके एशे मऊलके । ॥ इति क्रीडनकमादत्ते ॥ 18प्रथमा । ॥ विलोक्य सावेगम् ॥ अम्मो । रक्खागण्डओ से मणिबन्धे ण दीसदि । राजा । आयें । अलमावेगेन । नन्वयमस्य सिंहशावकविमर्दात्परिभ्रष्टः । 21 ॥ इत्यादातुमिच्छति ॥ उभे । मा खु मा खु । ॥ विलोक्य ॥ कधं गदिदं जेव । ॥ उभे विस्मयादुरसि निहितहस्ते परस्परमालोकयतः ॥ 24 राजा । किमर्थ भवतीभ्यां प्रतिषिद्धो ऽस्मि । प्रथमा । सुणादु महाभाओ । महप्पहावा एसा अवराइदा णाम सुरम होसही इमस्स दारअस्स जादकम्मसमए भअवदा मारीचेण दिण्णा । [Digitized by (Google