पृष्ठम्:Kalidasa's Śakuntala.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.24.4 -] [36 अनुसूया । । बहिर्विलोक्य ॥ पिअंवदे । एसो तवस्सिमिअपोदओ इदो तदो दिण्णदिट्टी पूर्ण मादरं पब्भटुं अणुसरदि । ता संजोएमि दाव णं । 6प्रियंवदा । हला । चवलो क्खु एसो । णं णिवारिदं एआइणी ण पारेसि । ता अहं पि सहाअत्तणं करइस्सं । । इत्युभे प्रस्थिते ॥ शकुन्तला । इदो अण्णदो ण बो गन्तुं अणुमण्णे जदो असहाइणि म्हि । 9उभे । ॥ सस्मितम् ॥ तुमं दाव असहाइणी जाए पुढवीणाधो समीवे वट्टदि । ॥ इति निष्क्रान्ते । शकुन्तला । कधं गदाओ पिअसहीओ । 12राजा । । दिशो ऽवलोक्य ॥ सुन्दरि । अलमावेगेन । नन्वयमाराधयिता जनस्ते सखीभूमौ वर्तते । तदुच्यताम् । किं शीकरैः कुमविमर्दिभिराद्रेवातं संचालयामि नलिनीदलतालवृन्तम् । अङ्गे निधाय चरणावुत पद्यताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २५ ॥ शकुन्तला । ण माणणीएसुं अत्ताणअं अवराहइस्सं । । अवस्थासदृशमुत्थाय प्रस्थिता । 3राजा । । अवष्टभ्य ॥ सुन्दरि । अपरिनिर्वाणो दिवसः । इयं च ते शरीरावस्था । उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणा । कथमातपे गमिष्यसि परिबाधाकोमलैरलैः ॥ २६ ॥ ॥ इति धारयति । शकुन्तला । मुञ्च मुञ्च । ण क्खु अत्रणो पहबामि । अध वा सहीमेत्त सरणा किं दाणिं एत्थ करइस्सं । 3राजा । धिक् । त्रीडितो ऽस्मि । शकुन्तला । ण क्खु अहं महाराअं भणामि । देव्वं उवालहामि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५६&oldid=83556" इत्यस्माद् प्रतिप्राप्तम्