पृष्ठम्:Kalidasa's Śakuntala.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

37] तृतायो ऽङ्कः राजा । अनुकूलकारि दैवं किमुपालभ्यते । 6शकुन्तला । कधं दाणिं ण उवालहिस्सं जं मं अत्तणो अणीसं परगुणेहिँ लोहावेदि । राजा । । खगतम् । अप्यौत्सुक्ये महति दयितमार्थनासु प्रतीपाः काङ्गन्त्यो ऽपि व्यतिकरसुखं कातराः खाङ्गदाने । आवाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वा दाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः ॥ २७ ॥ ॥ शकुन्तला गच्छत्येव । राजा । कथमात्मनः । प्रियं न करिष्ये । । उपसृत्य पटान्तरमवलम्बते ॥ 3शकुन्तला । पोरव । रक्ख विणअं । इदो तदो इसीओो संचरन्ति । राजा । सुन्दरि । अलं गुरुजनाद्भयेन । न ते विदितधर्मा तत्रभवान्कण्वः गान्धर्वेण विवाहेन बव्ह्यो ऽथ सुनिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चानुमोदिताः ॥ २८ ॥ ॥ दिशो ऽवलोक्य । कथं प्रकाशं निर्गतो ऽस्मि । ॥ शकुन्तलां हित्वा पुनतैरेव पदैः प्रतिनिवर्तते । 3शकुन्तला । ॥ पदान्तरे प्रतिनिवृत्य साङ्गभङ्गम् ॥ पोरव । अणिच्छापूरओो वि संभासणमेत्तएण परिचिदो अअं जणो ण विसुमरिदव्यो । राजा । सुन्दरि । त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे । दिनावसानच्छायेव पुरोमूलं वनस्पतेः ॥ २९ ॥ शकुन्तला । । स्तोकमन्तरं गत्वा आत्मगतम् ॥ हद्धी हद्धी । इमं सुणिआ ण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५७&oldid=83557" इत्यस्माद् प्रतिप्राप्तम्