27] ॥ ततः प्रविशति कुशानादाय यजमानशिष्यः ॥ शिष्यः । । विचिन्त्य सविस्मयम् । अहो । महामभावो राजा दुःषन्तः । येन 3प्रविष्टमात्र एवात्रभवति निरुपप्लवानि नः कार्याणि संवृत्तानि । का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्रान्व्यपोहति ॥ १ ॥ यावदिमान्वेदीसंस्तरणार्थ दर्भानृत्विग्भ्य उपहरामि । ॥ परिक्रम्यावलोक्य च आकाशे ॥ भियंवदे । कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीदलानि 3नीयन्ते । ॥ आकण्र्य ॥ किं ब्रवीषि । आतपलङ्गनाद्धलवदसुस्थशरीरा शकुन्तला । तस्याः शरीरनिर्वापणायेति । प्रियंवदे । यन्नादुपचर्यताम् । सा । हि तत्रभवतः कुलपतेरुजूसितम् । अहमपि वैतानं शान्त्युदकमस्या एव 6गौतमीहस्ते विसर्जयिष्यामि । ॥ इति निष्क्रान्तः ॥ ॥ प्रवेशकः ॥ । [-i. 3.b ॥ ततः प्रविशति मदनाबखो राजा ॥ 9राजा । । सचिन्तं निःश्वस्य । जाने तपसो वीर्य सा वाला परवतीति मे विदितम् । न च निन्नादिव सलिलं निवर्तते मे ततो हृदयम् ॥ २ ॥ भगवन्मन्मथ । कुतस्ते कुसुमायुधस्य सतस्तैक्ष्ण्यमेतत् । । स्मृत्वा ॥ अ आं ३ज्ञातम् । अद्यापि नूनं हरकोपवि स्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । 0a० (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/४७
दिखावट