अभिज्ञानशकुन्तले [28 त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ ३ ॥ अपि च । त्वया चन्द्रमसा च विश्वसनीयाभ्यामभिसंधीयते कामिसार्थः । कुतः । तव कुसुमशरत्वं शीतरश्मित्वमिन्दो यमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति हिमगभैरन्निमिन्दुर्मयूखै स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ।। ४ ।। अथ वा । अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ५ ॥ भगवन् । एवमुपालब्धस्य ते न मां मत्यनुक्रोशः । वृथैव संकल्पशतैरजस्र मनङ्ग नीतो ऽसि मयातिदृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥ ६॥ क नु खलु निरस्तवित्रैस्तपखिभिरनुज्ञातः खिन्नमात्मानं विनोदयानि । ॥ निःश्वस्य ॥ न च भियादर्शनादृते शरणमन्यत् । । ऊध्र्वमवलोक्य ॥ 3 इमामुग्रातपां वेलां प्रायेण लताबलयवत्सु मालिनीतीरेषु ससखीजना तत्र भवती गमयति । भवतु । तत्रैव गच्छामि । । परिक्रम्यावलोक्य च ॥ अनया बालपादपवीथ्या सुतनुरचिरगतेति तर्कयामि । कुतः । संमीलन्ति न तावद्धन्धनकोशास्तयावचितपुष्पाः । क्षीरस्निग्धाश्वामी दृश्यन्ते किसलयच्छेदा ॥ ७ ॥ ॥ स्पर्श रूपयित्वा ॥ अहो । प्रबातसुभगो ऽयं वनोद्देशः । Dated b (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/४८
दिखावट