पृष्ठम्:Kalidasa's Śakuntala.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29 ] तृतीयो ऽङ्कः शक्यो ऽरविन्दसुरभिः कणबाही मालिनीतरङ्गाणाम् । अप्रैरनङ्गततैर्निर्दयमालिङ्गितुं पवनः ॥ ८ ॥ ॥ विलोक्य ॥ हन्त । अखिमेव वेतसलतामण्डपे भवितव्यं शकुन्तलया । तथा हेि अभ्युमता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारे ऽस्य पाण्डुसिकते पदपङ्किटेश्यते ऽभिनवा ।। ९ ।। यावद्विटपान्तरेणावलोकयामि । । तथा कृत्वा सहर्षम् ॥ अये । लब्धं नेत्र निर्वाणम् । एषा मनोरथभिया मे कुसुमास्तरणशिलापट्टमधिशयाना सखी 3भ्यामुपास्यते । भवतु । शृणोमि तावदासां विस्रम्भकथितानि । ॥ इति विलोकयन्स्थितः । ॥ ततः प्रविशति सह सखीभ्यां शकुन्तला ॥ 6सख्यौ । । उपवीज्य । हला सउन्तले । अवि सुहा अदि दे णलिणीवत्तवादो । शकुन्तला । । सखेदम् ॥ किं बीअ अन्ति मं पिअसहीओो । । उभे सविषादं परस्परमवलोकयतः ॥ 9राजा । बलवदसुस्थशरीरा तत्रभवती दृश्यते । । सवितर्कम् ॥ तत्किमय मातपदोषः स्यादुत यथा मे मनसि वर्तते । ॥ विचिन्त्य । अथ वा कृतं संदेहेन । स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं मियायाः साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघमसरयो - नै तु ग्रीष्मस्यैवंसुभगमपराद्धं युवतिषु ॥ १० ॥ प्रियंवदा । । जनान्तिकम् । अणुसूए । तस्स राएसिणो पढमदंसणादो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४९&oldid=83545" इत्यस्माद् प्रतिप्राप्तम्