1. 15. a- ] शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथ वा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥ नेपथ्ये । इदो इदो पिअसहीओो । राजा । । कर्ण दत्त्वा ॥ अये । दक्षिणेन दृक्षवाटिकामालाप इव श्रूयते । 3भवतु । अवगच्छामि । । परिक्रम्यावलोक्य च ॥ अये । एतास्तपस्विकन्यकाः खप्रमाणानुरूपैः सचन्नघटबालपादपभ्यः पयो दातुमित एवाभिवर्तन्ते । अहो । मधुरमासां दर्शनम् । शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १६ ॥ यावदेताश्छायामाश्रितः प्रतिपालयामि | ॥ इति विलोकयन्स्थितः ॥ ॥ ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला ॥ 3 एका । हला सउन्तले । तत्तो वि तादकण्णस्स अस्समरुक्खआ पिअ त्ति तकेमि जेण णोमालिआकुसुमपरिपेलवा वि तुमं एदेसुं आलवालपूरणेसुं णिउत्ता । 6शकुन्तला । हला अणुसूए । ण केवलं तादस्स मिओओ ममावि सहो अरसिणेहो एदेसुं । ॥ इति वृक्षसेचनं नाटयति ॥ प्रियंवदा । सहेि सउन्तले । उदअं लम्भिदा एदे गिम्हआलकुसुमदाइणो 9अस्समरुक्खआ । इदाणेि आदिकन्तकुसुमसमए वि रुक्खए सिश्वम्ह । तेण हेि अणहिसंधिगरुओो धम्मो भविस्सदि । शकुन्तला । सहेि पिअंवदे । रमणीअं मन्तेसि । ॥ इति भूयो वृक्षसेचनं 12नाटयति । राजा । । आत्मगतम् ॥ कथमियं सा कण्वदुहिता शकुन्तला । ॥ सविस्मयम् ॥
पृष्ठम्:Kalidasa's Śakuntala.djvu/२६
दिखावट