पृष्ठम्:Kalidasa's Śakuntala.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमो ऽङ्कः [-1. 19.3 अहो । असाधुदशीं तत्रभवान्कण्वो य इमां वल्कलधारणे नियुङ्गे । इदं किलाव्याजमनोहरं वपु स्तपःकर्म साधयितुं य इच्छति । धुव स शमीलतां छेत्तुमृषिव्र्यवस्यति ॥ १७ ॥ भवतु । पादपान्तरितो विश्धस्तां तावदेनां पश्यामि । । इत्यपवार्ये स्थितः । शकुन्तला । हला अणुसूए । अदिपिणद्वेण एदिणा वकलेण पिअंबदाए 3दढं पीडिद म्हि । ता सिढिलेहि दाव णं । । अनुसूया शिथिलयति ॥ प्रियंवदा । । सहासम् । एत्थ दाव पओोहरवित्थारइत्तर्थ अत्तणो जोव्वणा रम्भ उवालहसु । 6राजा । सम्यगियमाह । इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना बल्कलेन । वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्डुपलोदरेण ॥ १८ ॥ अथ वा काममप्रतिरूपमस्य वयसो वल्कलं न पुनरलंकारश्रियं न पुष्णाति । कुतः । सरसिजमनुविद्धं शैबलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १९ ॥ शकुन्तला । ॥ अग्रतो ऽवलोक्य ॥ सहीओो । एस वादेरिदपलवङ्खलीहिं किं पि वाहरेदि विअ मं चूदरुक्खओो । ता जाव णं संभावेमि । 3॥ इति तथा करोति । [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२७&oldid=83523" इत्यस्माद् प्रतिप्राप्तम्