त ‘आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । तस्माच्छूद्रः खयं कर्म यजुर्वेदीव कारयेत् ।।' इतेि श्रदाहिकाचारतत्वधूतस्मृतिवचनेन शूद्राणामपि वेदसंबन्धात्-इतेि चेत् अत्रोच्यते-यथेच्छसि तथास्तु । उभयथाप्येतच्छक्यते प्रतिपत्तुं कतिपयस्य वा सर्वस्यं वाछन्दस्त्वमस्तीति । ननु चोक्तमुभयत्रापि दूषणमिति चेत्-नैतदस्ति । अस्ति थेतत् यदारम्भे यदारम्भः, यदवसाये यदवसायः, यदभ्युचये यदभ्युचयः, यदवचये यद वचयः; तत्तदायतनमित्युच्यते । यदाश्रयेण वा यस्य प्रतिपत्तिः सा तस्य प्रतिष्ठाऽभि ज्ञायते । तथा चायं तावद् ब्राह्मसंस्कारः साक्षात्परम्परया च ब्राह्मणत्वक्षत्रियत्ववैश्य त्वानां प्रतिष्ठा भवति । तदधीनोपपत्तिकत्वात् । प्रतिष्ठायां च श्रूयते प्रमाशब्दः, तस्मात् संसिद्धं प्रमालक्षणं छन्दस्त्वमेतस्य । तत्र योग्यात्मनि संस्कारविशेषेण ब्रह्माधीयते, योग्यात्मनि च संस्कारविशेषेण क्षत्रं विड् वा । धोवस्यसं चेदं ब्रह्म, रौद्रं क्षत्रम्, मारुत्यो विशः । आतश्चाझेयं ब्रह्म, ऐन्द्र क्षत्रम्, वैश्वदेव्यो विशः । अमेस्तु छन्दो गायत्री सा वाष्टवर्णा, इन्द्रस्य त्रिष्टुबेकादश वर्णा, विश्वेषां देवानां जगती द्वादशवर्णा । आतश्च गायत्रं ब्रह्म, त्रैष्टुभं क्षत्रम्, जागती किड् । तदित्थमष्टवर्णनिबन्धनं ब्रह्माधेयम्, एकादशवर्णनिबन्धनं चेदं क्षत्रम्, द्वादशवर्ण निबन्धना त्वेषां विडिति वर्णछन्दोबद्धतया त्रयो वर्णा उच्यन्ते-ब्राह्मणः क्षत्रियो वैश्य इति । शूद्रस्यैवमवर्णत्वेऽपि वर्णत्वमौपचारिकं द्रष्टव्यम् । अच्छन्दस्त्वस्यैव छन्दस्त्वेन विवक्षितत्वात् । तथा च यथा हि वाग्वर्णो गायत्रीछन्दाः, त्रिष्टुप्छन्दाः, जगतीच्छन्दा विच्छन्दा वा भवति, एवमयं मनुष्यवर्णोऽपि चतुर्विधो भवति । सर्वोऽप्ययं प्राणि वर्गेऽप्राणिवर्गे वा तैरेतैर्वर्णच्छन्दोभिरेव सच्छन्दस्कतया वर्णो भवति । ब्राह्मणः क्षत्रियः, वैश्यः, शूद्र इति । यथा च ग्राम्येषु पशुषु तावदजो ब्राह्मणः, अविः क्षत्रिय गाँवैश्यः, अश्वः शूद्र इति । यथा वान्यत्र स्थावरादिषु । एवमयं मनुष्येषु संस्कारसिद्धो . भूत्वा गायत्रीच्छन्दा ब्राह्मणः, त्रिष्टुप्छन्दाः क्षत्रियः, जगतीच्छन्दा वैश्यः, प्राजापत्य च्छन्दा विच्छन्दा वा शूद्र इति ॥ ‘ब्राह्मणोऽस्य मुखमासीद् बाहु राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पश्यां शूद्रो. अजायत ।।' इति । ‘प्रजापतिरकामयत-प्रजायेतेि, स मुखतत्रिवृतं निरमिमीत ।! तमग्निर्देवता अन्वसृजत, गायत्री छन्दो, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम् । तस्माते मुख्याः-मुखतो ह्यस्ज्यन्त ॥ उरसो बाहुभ्यां पञ्चदशं निरमिमीत । तमिन्द्रो देवतान्यसृजत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् तस्मात्त वीर्यवन्तो-वीर्याद्धयज्यन्त ॥ मध्यतः सप्तदशं निरमिमीत । तं विश्वदेवा देवता अन्वसृज-त । जगतीच्छन्दो, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्, ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१
दिखावट