पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रा वा जागती, इत्येवमनेकधा लक्षय्याः भूयन्ते । ताश् सर्वा एवैता गायश्य ो जगत्यथ लक्षणमर्हन्ति । तत्र यदुच्यते-‘अक्षरपरिमाणं छन्द इति'; वाचिकेष्वेवैतदवकाशं लभते, नान्यत्रेत्यनैकान्तिकं भवति । न चानैकान्तिके लक्षण शब्दः प्रवर्तते । तस्मादलक्षणमेतत् । स्पादेव तु तेषु तेषु सर्वेष्वनुगतः कश्चन विल क्षणो धमों यदनुरोधेन छन्दःशब्दः प्रवर्तते । तमेतं धर्म पृच्छामः--किमेिदं छन्दइति ॥ यान्येतानि गायत्र्यादीन्यभिधानानि श्रूयन्ते; किमेते यदृच्छाशब्दाः, उत रूढा गोगरूढाः, यौगेिकरूढाः, यौगिका वा ? । अथवा कचिन्मुख्याः, अपरत्र भक्तया प्रयु ज्यन्ते! । तत्र तावत्-‘गायतो मुखादुदपतत्’ इति गायत्र्याः, ‘गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभति' इत्यनुष्टुभश्च निर्वचनश्रवणातू, ‘गायन्तं त्रायते यसा ज्ञायत्रीत्युच्यते बुधैः ।’ इत्यादिस्मरणाञ्चावयवार्थस्फोटाव नैते यदृच्छाशब्दा इति शक्यं वकुम् । नाप्येते रूढा भवितुं युज्यन्ते । “तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्ष रतराणि, अथ कस्मादेतां बृहतीत्याचक्षत इति । एतया हेि देवा इमांछोकानाश्रुवत । ते वै दशभिरेवाक्षरैरिमं लोकमाश्रुवत, दशभिरंतरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिन् लोके प्रत्यतिष्ठन्, तस्मादेनां बृहतीत्याचक्षते ॥” (ऐ. ब्रा.) इयेवमादिभिः श्रुतिभिरेषामवयवार्थसापेक्षत्वावगमात् । न चाप्येते योगारूढा भवन्ति । सप्तधा वै वागवदत्' । ‘अक्षरेण मेिमते सप्तवाणीः’ इलेवमादिश्रुतिसिद्धेषु वाग्विग्छित्तिविशेषेष्वेव तु भवानिदानीं गायत्र्यादीन् शब्दानाचष्टे । तत्र नैतेषु गाय त्र्यादीनामवयवार्थसमन्वय खारस्येन शक्यते कर्तुम् । शुद्धं यौगिकत्वमप्यत एव प्रत्याख्यातं भवति द्रव्यशब्दत्वगुणशब्दत्वक्रियाशब्दत्वानामन्यतमस्याप्यत्र त्वात् । तत्तर्हि स्यादेवम्-न केवलं वाग्विशेषा एवैतेषां गायत्र्यादिशब्दानां विषया वन्तीति, किं तर्हि-सन्येव केचिदन्येऽपि साध्यदेवादयो द्रविणादयो वा वेदप्रसिद्धा गायत्र्यादिशब्दप्रतिपाद्याः, अथ वाग्विशेषाश्च । तेषु कचिदिमे यौगेिकाः, अपरत्र रूढाः स्युः । अथवा कचिन्मुख्या अपरत्र भक्ताः स्युः । तत्र न ज्ञायते कुत्र कीदृशा? इति । . किंच भूयसा श्रूयते गायत्र्यादीनामाच्छादकत्वाच्छन्दस्त्वमस्तीति । तत्र न ज्ञायते कथमेषां वाग्विशेषाणां साध्यदेवानां द्रविणानामन्येषां वा किमाच्छादकत्व मस्तीति । आच्छादकत्वमेवैतच्छन्दःशब्दस्य प्रवृत्तिनिमित्तमुत गायत्र्यादिशब्दसंबन्ध मात्रमथवान्यदेव किंचेित् ? । तस्मादुत्तिष्ठते जिज्ञासा-किमिदं छन्द ? इति ॥ अथाप्येतदन्यथान्यथा बहुधा श्रूयते वेदे । तथाहि (१) “एते वाव देवाः प्रातर्यावाणो यदभिरुषा अश्विनौ । त एते सप्तभिः सप्तभिंश्छन्दोभिरागच्छन्ति ।” इति । तदेतन्न ज्ञायते-कथं ते सप्तभिश्छन्दोभिरागच्छन्ति, कानि वा तत्र छन्दांसि? ॥ (२) “छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन् । गायत्री, त्रिभव जगलै