छन्दःशास्त्रस्य भूमिका । तत्र छन्दःसमीक्षास्थश्छन्दस्तत्ववादः अथ किमिदं छन्द१ इति पृच्छामः । “ननु च भोः! यदि कश्चिडूयातू-कः खलु ब्राह्मण ? इति, सोऽयं त्रिविधः पर्यनुयोगो भवति-लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षश्च । तदतस्त्रिविधः समाधिभेवति असौ देवदतो ब्राह्मण इति लक्ष्यापेक्षः, कश्यपाङ्गिरोभृग्वत्रिवसिष्ठविश्वामित्रागस्त्याख्याः सतैव ब्राह्मणजग्नयो भवन्ति इति लक्षण्यापेक्ष विद्या योनिः कर्म चेति त्रयं ब्राह्मण्यलक्षणम् । सेवा संग्रहवृद्धिश्च कालयापश्च पातनम् ॥ जीवितं यस्य धर्मार्थ धर्मो रत्यर्थमेव च । अहोरात्राश्च पुण्यार्थ तं देवा ब्राह्मणं विदुः ॥ कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् । खधर्मनिरतः शुद्धस्तस्माद्राह्मण उच्यते । जात्या कुलेन वृत्तेन खाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठन्नित्यं स द्विज उच्यते । धृतिः क्षमा दयास्तेयं शौचमिन्द्रियनिग्रहः । विद्या चैव तपः सत्यं नवकं ब्रह्मलक्षणम् ॥ ’ इति लक्षणापेक्षश्च । एवमेवेदं यदः पर्यनुयुज्यते किमिदं छन्द? इति; सोऽयं त्रिविधः पर्यनुयोगो भवत लक्ष्यापेक्षः, लक्षप्यापेक्षः, लक्षणापेक्षश्च । तदतस्त्रिविधः समाधिर्भवति ‘अप्तिमीळे पुरोहितं यज्ञस्य देवमृत्विर्जम् । होतारं रद्धातमम् ॥'(ऋ. १ अ. १ अ. १ व.) इतीदं छन्द इति लक्ष्यापेक्षः, गायत्र्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्या ख्याः ससैव छन्दोजातयो भवन्तीति लक्षण्यापेक्षः, ‘यदक्षरपरिमाणं तच्छन्दः’ ‘मात्रा क्षरसंख्यानियता वाकू छन्द’ इति लक्षणापेक्षश्च । तदित्थं सिद्धं प्रतिवचनमितीदं छन्द इति चेत्; न सिद्धम् । कुत एतत्? । यद रपरिमाणं तच्छन्द इति हि लक्षणमुच्यते, तत्तावदपर्याप्तं भवति । पृथिवी गायत्री अन्तरिक्षं त्रषु म्, द्यौर्जागती । अन्निर्गायत्रः, इन्द्रत्रैष्टुभः, विश्वेदेवा जागताः । तेजी वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्य त्रिषुप्, पशावो जागताः । ब्रह्म गायत्रम्, क्षत्रं त्रैष्टुभम्, विड् जगतम् । ब्राह्मणो गायत्रः, क्षत्रियत्रैष्टुभः, वैश्यो जा गतः । चतुर्विंशत्यक्षरा वाग्गायत्री, ब्रतुश्चत्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टवन्वारिंशद्
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४
दिखावट