इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् ।
योऽविकारो विजानाति परागेवास्य तत्तमः ॥४५॥
यत एतदेवमतस्तयैव बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य स्वकार्येद्वितीयाभिसम्बन्धो न त्वविकारिण अाइमन इत्याह दृष्टान्तन्न ।
स्रूपप्रकाशयोर्यद्वत्संगतिवैिक्रियावतः ।
सुखदुःखादिसम्बन्धश्चितयैवं विकारिणः ॥ ४६ ॥
तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह ।
सम्प्रसादेऽविकारित्वादस्तं याते विकारिणि ।
पश्यतो नात्मनः किञ्चिद्वितीयं स्पृशतेऽण्वपि ॥४७॥
द्वस्य जगडीजस्याज्ञानस्य परमेश्वरशक्तितया तद्भेदात्कथं तस्य ज्ञाननिवत्यैतत्वमित्यत आह तत्रेति । ज्ञानादित्रयमनापन्नविकारतया योऽवभासयति तस्य परागेव बहिरेव तमस्तस्यात्मनः स्वरूपं धर्मश्च न भवति जडत्वादृश्यत्वाच्च । आत्मशक्तित्वव्यपदेशश्चास्य सत्ताप्रतीत्योस्तत्परतन्त्रत्वादेवेतिभाव ॥ ४५ ॥ ननु सुखदुःखादिसम्बन्धवदज्ञानसम्बन्धोऽप्यात्मनः किं न स्यादित्याशङ्कयाविकारित्वादेवात्मनः सुखदुःखसम्बन्धासम्भवान्मैवमिति दृष्टान्तेन दर्शयति यत एतदेवमित्यादिना । आत्मा विकाररहित एव जानाति यतस्ततश्चित्ताख्यपरिणामविशिष्टस्यैवाज्ञानस्य द्वितीयसम्वन्धो न त्वात्मनस्तस्य त्वज्ञानजनितचित्तोपाधिद्वारा भवति न तु स्वभावत इत्यर्थः । रूपप्रकाशयोरिति । सुखदुःखादिसम्बन्धोऽपि विक्रियावत एव भवितुमर्हति सम्बन्धत्वादूपप्रकाशसम्बन्धवदित्यर्थः ॥ ४६ ॥ सति चित्तसम्बन्धे सुखदुःखादिसम्बन्धो नास्तीत्युक्तमर्थमन्वयव्यतिरेकाभ्यां दर्शयितुमुत्तरश्लोक इत्याह तदेतदिति । संप्रसादे सुषुप्तिसमये विकारिणि चित्तेऽस्तं याते सत्यात्मनोऽविकारित्वात्कृटस्थदृष्टित्वा-