पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
चतुर्थोऽध्यायः ।

यथा प्राज्ञे तथैवायं स्वशजागरितान्तयोः । पश्यन्नप्यविकारित्वाद्वितीयं नैव पश्यति ॥ ४७ ॥ एवं ज्ञानवतो नास्ति ममाहम्मतिसंश्रयम् । भास्वाप्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥ ४९ ॥ तत्र दृष्टान्तः । आप्रबोधाद्यथा सिद्धिद्वैतादन्यस्य वस्तुनः । बोधादेवमसिद्वाचं बुद्धयादेः प्रत्यगात्मनः ॥ ५० ॥ स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् । सर्वमेवानुजानाति सर्वमेव निषेधति । भदात्मलाभाऽनुज्ञा स्यान्नषधाऽतत्स्वभावतः॥५१॥


त्पश्यतोऽपि तस्यात्मनो नाण्वपि द्वितीयं स्पृशते नात्मना सम्बध्यत इत्यर्थः ॥ ४७ ॥ संप्रसाद इतिविशेषणादितरावस्थयोद्वितीयसम्बन्धोऽभिमत इत्याशङ्कय तयोरप्यवस्थयोः परमार्थतस्तत्स्पर्शभावं दर्शयति सोऽयमित्यादिना । प्राज्ञावस्थायामिव स्वप्तजागरितयोरप्यात्मनो द्वितीयसंस्पश नास्तीत्यर्थः । अत्रान्तशब्दः स्वरूपवचनः ॥ ४८ ॥ अवस्थात्रयेऽपि कूटस्थ आत्मेति विजानतः फलमाह एवमिति । ममाहमिति । यदिदं ज्ञानद्वयमन्तःकरणाश्रयं तदेवंविदो नास्तीत्यर्थः॥४९॥ आप्रबोधादिति । द्वैताद्न्यवस्तुविषयबोधपर्यन्तं द्वैतसिद्धिर्यथा तथा बाधकबोधोद्यादुध्र्व तस्यासिद्धिर्युक्तवेत्यर्थः । यद्वा । बोधात्पूर्व यथा द्वैतादन्यस्याद्वितीयवस्तुनोऽसिद्धिरेवं बोधादूध्वं प्रत्यगात्मनो बुद्यादिसम्बन्धासिद्धिरित्यर्थः ॥ ५० ॥ विदुषोऽनुभवप्रकारामिदानीं दर्शयति स एष इति । कथमेतद्विरुद्धमभिधीयत इत्यत आाह भेदात्मेति । व्यवहारदृष्टया द्वैतप्रपञ्चस्य स्वरूपलाभोऽनुशा तत्वदृष्टया तद्भावो निषेध इत्यर्थः ॥ ५१ ॥