पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
चतुर्थोऽध्यायः ।

  • अन्यथागृह्णतः स्वो निद्रा तत्त्वमजानतः ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्रुते' ॥ ४२ ॥ “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वशप्रबोधयोः । स्वात्मबोधप्रदग्धं स्याद्वीज दग्धं यथाभवम्” ॥४३॥ एवं गौडैद्रविडैर्नः पूयैरयमर्थः प्रभाषितः । अज्ञानमात्रोपाधिः सन्नहमादिदृगीश्वरः ॥ ४४ ॥ तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनामधर्म एवात्याह ।


कदा पुनस्तुरीयपदप्राप्तिरित्याशङ्कयाह अन्यथेति । स्वप्रजागरितयोस्तत्वमन्यथागृङ्गतः स्वशो विपरीतग्रहणम् । तत्त्वमजानतः सुषुश्यवस्थायां निद्रा तत्वाग्रहणं बीजाइज्ञानं । तत्र जाग्रत्स्वप्प्तावन्यथाग्रहणप्रधानत्वात्कार्यस्थानम् । सुषुप्तिः केवलाग्रहणप्रधानत्वात्कारणस्थानं । तयोश्ध कार्यकारणस्थानयोपियसे विपरीतग्रहणलक्षणे केवलाग्रहणलक्षणे च तत्वप्रतिबोधतः क्षीणे तुरीयं पदं प्राऽोतीत्यर्थः ॥ ४२ ॥ उपदेशसाहस्त्र्यामप्येतदुक्तमित्याह तथेति । सुषुप्ताख्यमिति । सुषुप्तं तमोऽज्ञानमिति पर्यायास्तदेवं शब्दवाच्यमझानं स्वप्तप्रबोधयोर्वजं स्वात्मवोश्रेन प्रकर्षेण दग्धं सदभवं न पुनः कामकर्मादिप्रसवार्थ स्यात् । दग्धबीजमिवेति वदन्सुषुप्तावज्ञानसद्भावं तस्यात्मज्ञाननिवत्र्यंत्वं च दर्शयतीत्यर्थः ॥ ४३ ॥ उपसंहरति एवमिति । गौडेगौडपादाचायैरस्मदाराध्यैः । द्राविडेर्भगवन्पूज्यपादाचार्यः । पश्च द्राविडा इति केवलानामपि द्राविडत्वप्रसिद्धेः । कोऽसावघथ भापित इत्यत आह अज्ञानमात्रेति । ईश्वरः परमान्मवाशानमात्रोपाधिरहःारादीनां साक्षितया जीवत्वेनावस्थित इत्यस्मदुतं तेषामप्यभिमतमित्यर्थः ॥ ४४ ॥ ननु * तम आसीत्' “आसीदिदं तमोभूतमि'ति श्रुतिस्मृतिप्रसि-