पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१९४ नैनष्कम्यैसिद्धिश्चन्द्रिकासहिता तत्त्वमस्यादिवाक्योत्यविज्ञानेनैव बाध्यते । यस्मात् । अस्माद्यदपरं रूपं नास्तीयेव निरूप्यते । अन्यथाग्रहणाभावाद्वीज तत्स्वप्तबोधयोः ॥ ४० ॥ अस्यार्थस्य द्रढिम्न उदाहरणम् ।

  • कार्यकारणबद्दौ ताविष्येते विश्वतैजसौ ।

प्राज्ञः कारणबद्धस्तु बौ तौ तुर्ये न सिध्यतः' ॥४१॥ त्वम्पदेन लक्ष्यते यस्मात्तस्मात्तद्विपरीतं द्वैतजातमविद्याध्यारोपितं वि द्यया निवत्र्यमानमात्ममात्रावशेषमेव निवत्र्यत इति भावः ॥ ३९ ॥ निरस्तसमस्तद्वैतं वस्तु सुषुप्यवस्थायां स्वत एव सिञ्डं चेत्कि तत्व मस्यादिवाक्यजन्यविज्ञानेन तेन विनापि तस्य सिद्धत्वादित्याशङ्कयाह तत्त्वमस्यादीति । यस्मादविद्या पूर्वोक्तन्यायेन तत्त्वमस्यादिवाक्योत्थवि ज्ञानेनैव बाध्यते तस्मादविद्यानिवृत्तये वाक्यमपेक्षणीयमित्यर्थः । ननु यद्यविद्यानिवृत्तिस्तत्वमस्यादिवाक्योत्थविज्ञानेनैव क्रियते कथं तर्हि निर्विशेषं वस्तु सुषुप्त्यवस्थायां सिद्धमिति न तु त द्वितीयमस्तीत्यादिश्रु त्योच्यत इत्याशङ्कयाह अस्माद्यद्परमिति । सुषुप्तिदशायामन्यथाग्रहणा भावाद्वैतरूपग्रहणाभावाद्वैतरूपजाग्रत्स्वप्रयोरभावादस्मात्प्रकृतादात्म नोऽपरं रूपं नास्तीति “न तु तद्वितीयमस्ती'त्यादिश्रुत्या निरूप्यते न तु तत्कारणस्याग्रहणाभावात्तञ्चाग्रहणं स्वप्प्रबोधयोवजं तत्रास्त्येव तेन तन्निवर्तकं वाक्यमपि सार्थकमित्यर्थः ॥ ४० ॥ वाक्यश्रवणे सत्येवाग्रहणं निवर्तते ततः प्राक्सुषुतेस्तन्निवृत्तिन स्तीति यदुक्तं तत्र प्रमाणत्वेन गौडपादीयवाक्यमुदाहरति अस्येत्या दिना । कार्यमन्यथाग्रहणं कारणं तत्त्वाग्रहणं । ताभ्यां बद्धौ संगृहीतौ जाग्रत्स्वप्राभिमानिनौ विश्वतैजसौ । प्राज्ञः पुनः सुषुप्यभिमानी कार णेनैव तत्वाग्रहणेनैव बद्धः । द्वावप्येतौ कार्यकारणपदार्थो तुर्यावस्थायां न सिध्यतो न सम्भवत इत्यर्थः ॥ ४१ ॥