न व्यावृतिर्यथा भावाङ्गावेनैवाविशेषतः । अभावादप्यभावावाब्द्यावृतिर्न तथेष्यते ॥ ११४ ॥ यतो नानुमानेन व्याविङ्काशेषक्रियाकारकझलात्मनि स्वाराज्येऽभिषेतुं शक्यते तस्मात् । अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया । भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ १५ ॥ अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाडुःसम्भाव्या विद्येति । नैतदेवम् । कुतः । यत आह । कृतो विद्येति चोद्य स्यात्रैव प्राग्घेवसम्भवात् । कालत्रयापरिच्छितेर्न चोध्र्व चोद्यसम्भवः ॥११६॥
द्देहाद्विदित्यभावाद्यावृत्तिरप्यनुमानात्सिद्वयति ततः कथमन्वयव्यतिरेकसहकृताद्धाक्यादात्मावगतिः स्यादित्युच्यत इति शङ्कोत्तरत्वेन श्लोकमवतारयति भाववदित्यादिना । भावाद्देहेन्द्रियाद्यात्मलक्षणाद्यथात्मनो व्यावृत्तिर्न भावत्वाकारेणैव भवत्युभयोर्भावस्वभावत् किन्तु द्रष्टदृश्यादिचतुर्विधान्वयव्यतिरेकलक्षणानुमानबलादेव निश्चीयत एवमभावाद्देहाद्यात्मवैधुर्यादनुमानविषयीकृताह्यावृत्तिरनुमानेनैव न प्रतीयतेऽनुमानविनिश्चिताभावत्वादेव ततो भावाभावविलक्षणब्रह्मरूपत्वप्रतिपादकवाक्यादेवाभावव्यावृत्तिप्रतीतिरिति भावः ॥ ११४ ॥ फलितार्थमुपसंहरति यत इत्यादिना । दुर्विवेकया प्रमाणान्तरेण निवर्तयितुमशक्ययेत्यर्थः ॥ ११५ ॥ पूर्वोक्तमनवबोधमुद्भाव्य प्रकारान्तरेण परिहरति अत्राहेत्यादिना । किमनुदितायां विद्यायामविद्या न सम्भवतीति चोद्यमुतोदितायां । नाद्यस्तदानीमात्मनोऽनुदितानस्तमितविज्ञानस्वभावतयानवगमादेवंभूते कथमविद्येति चोद्यानवतारादविद्यानुभवविरोधाञ्च । नापि द्वितीय आात्मन्यविद्या नासीदस्ति भविष्यतीत्यवगतस्तादृशचोद्यानवसरत्वादित्यर्थः ॥ ११६ ॥