पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
तृतीयोऽध्यायः ।

यस्मात्तत्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां निरन्वयामपनुदति तस्मात् । अङ्कातममनादृत्य प्रमाण सदसीति ये । बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥११७॥ एवमप्रतिहतामहंब्रखेतिप्रमां तत्त्वमस्यादिवाक्यं कुर्वेदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि प्रतिपतिः स्यादत अाह । इदं चेदनृतं बूयात्सत्यामवगतावपि । न चान्यत्रापि विश्वासो ह्यवगायविशेषतः ॥ ११ ॥ न चोपादिसिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं युक्तं यस्मात् ।


प्रसंख्यानादीनां नाविद्यानिवर्तकत्वमित्युपसंहरति यस्मादित्यादिना । अद्धातमं साक्षादात्मतत्वप्रमितिसमर्थतया निश्चिततमं तत्त्वमस्यादिवाक्यमनादृत्य प्रसंख्यानादिनात्मतत्त्वं येऽवगन्तुमिच्छन्तः प्रघत्र्तन्ते ते चक्षुरिन्द्रियेण रसविशेषान्प्रतिपत्तुमिच्छन्तीत्यर्थः ॥ ११७ ॥ उक्तन्यायेन वेदान्तानां प्रामाण्योपपत्तावपि यदि वैयथ्र्यादप्रामाण्यं बूयात्तर्हि कृत्स्नस्यापि वेदस्य प्रत्यक्षादेश्चाप्रामाण्यं स्यादित्यतिप्रसङ्गमाह एवमिति । तत्त्वमस्यादिवाक्यान्निश्चिततात्पर्यावगतो सत्यामपि यदि कश्धिदिदमनृतमप्रामाण्यं ब्रूयात्तस्यात्मन्यन्यत्रापि कृत्स्रवेदेऽपि प्रत्यक्षादौ चावगतौ सत्यामप्यविशेषाद्विश्वासो न स्यात्ततश्च स्वत:प्रामाण्यं व्याहन्यत इत्यर्थः ॥ ११८ ॥ ननु न त्र वयमप्रामाण्यं वेदान्तानां चूमः किन्त्वह ब्रह्मास्मीत्युपासी तेत्युपासनाविधिपरत्वेन प्रामाण्यमिति तत्राह न चोपादित्सितादिति । रत्वं कल्प्यम्। न चैतदस्ति विज्ञातपदार्थस्याधिकारिणो वाक्यात्प्रमित्यु-