पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

न चेदनुभवोऽतः स्यात्पदार्थावगतावपि । कल्प्यं विध्यन्तरं तत्र नह्यन्योऽयऽवगम्यते ॥११९॥ न च ययाभिमतोऽयों यथोतेन न्यायेन नावसीयते । कोऽसौ न्याय इत्याह । नामादिभ्यो निराकृत्य त्वमर्थ निष्परिग्रहः । निःस्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥१२०॥ भत्वा चान्नमयादींस्तान्पञ्चानामतयार्गलान् । अहब्रहोति वाक्यार्थ वेति चेन्नार्थ ईहया ॥ १२१ ॥ प्राप्तोति । तदाह ।


त्पत्तेरुक्तन्यायेन मुख्यार्थसम्भवे विधेः कल्पयितुमशक्यत्वाच्च न विधिपरत्वेन प्रामाण्यं वाच्यमित्यर्थः। इतश्च न िवधिपरत्वं कल्पनीयमित्याह तत्र न ह्यन्योऽर्थ इति । तत्त्वमस्यादिवाक्यप्रकरणे विधिपदाश्रवणादिलयथेः ॥ ११९ ॥ कथं तर्हि पदार्थावगतिहेतुतया वाक्यार्थप्रतिपत्युपयोगी न्याय इति तं दर्शयितुं न्यायस्य तावत्पदार्थसाधकत्वमस्तीत्याह न चेति । प्रश्नपूर्वकं श्लोकद्वयमवतारयति कोऽसाविति । नामादिभ्यः प्राणान्तेभ्यश्छान्दोग्योपनिषत्प्रदशितेभ्य आत्मानं विविक्ततयाधिगम्याहंमानं वर्जयित्वा ममत्ववर्जनाञ्च निष्परिग्रहः क्षेत्रपुत्रादिपरिग्रहरहितो युष्मद्थेभ्यो निःस्पृहस्तदुपभोगतृष्णावर्जितः शमाद्यधिकारिविशेषणसंपन्नस्तैत्तिरीयकोपनिषत्प्रतिपादितान्नभयादिपञ्चकोशेष्वहंममाभिमानहीनः क्षपितसमस्तप्रतिबन्धतया ब्रह्मात्मतां प्रतिपद्यते चेत्कि तत्रोपासनादिव्यापारेण कृत्यमित्यर्थः ॥ १२० ॥ १२१ ॥ एवमुक्ताधिकारिणो वेदान्ताः प्रमितिमुत्पादयन्तीत्युक्तमिदानीं तद्-