निर्दःखित्वं स्वतःसिद्धं प्रत्यक्षादेश्च दुःखिता ।
को ह्यात्मानमनादृत्य विश्वसेद्वाह्यमानतः ॥ ९४ ॥
सम्बन्धार्थ एव ।
अपि प्रत्यक्षबाधेन प्रवृतिः प्रत्यगात्मनि ।
“पराञ्चि खानी'येतस्माद्वचसो गम्यते श्रुतेः ॥९५॥
अभ्युपगम्यैवमुच्यते । नतु प्रमाणं सत्प्रमाणान्तरेण विरुध्यत इत्यसकृदवोचाम । यत्रापि वाक्यप्रत्यक्षयोर्विरोधाशंका तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति । अत आह ।
प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् ।
गौणीं प्रत्यक्षतां बूयान्मुख्यार्थासम्भवाडुधः ॥ ९६ ॥
मित्यर्थः । ननु स्वतःसिद्धात्प्रत्यक्षादिसिद्धस्यैव प्राबल्यं किं न स्यादित्यत आह को हीति । निर्दू:खित्वं निर्दोषागमवाक्यात्स्वत एव प्रतीयते दुःखित्वं तु सम्भावितदोषात्प्रत्यक्षादेः परत एव प्रतीयते तत्र निर्दोषसदोषप्रमाणाभ्यां स्वतः परतः प्रतिपन्नयोर्निदोषप्रमाणेन स्वतःप्रतिपन्ने ऽविभ्रमः कर्तव्य इत्यर्थः ॥ ९४ ॥ पूर्वश्लोकसम्बन्धग्रन्थोक्तार्थे श्रुतिप्रतिपादनायोत्तरश्लोक इत्याह सम्बन्धेति । प्रत्यक्षवाधेन प्रत्यगात्मनि श्रुतेः प्रवृत्तिरित्येषोऽर्थः “पराञ्चि खानी'त्येतस्माद्धचसो गम्यते । “तस्मात्पराङ्पश्यति नान्तरात्मन्नि'ति प्रत्यगात्मनः प्रत्यक्षाद्ययोग्यत्वकथनादित्यर्थः ॥ ९५ ॥ अभ्युपगमवादमिदानीं त्यजति अभ्युपगम्यैवमिति । ननु प्रमाणं सत्प्रमाणान्तरेण न विरुध्यत इति कथमुच्यते तत्त्वमस्यादिवाक्यदुःखित्वादिप्रत्यक्षयोर्विरोधंद्र्शनादित्याशङ्कय तत्रापि प्रमाणवृत्यपरिशानादेव विरोधाशङ्का पुरुपस्य जायते न तु परमार्थतस्तयोर्विरोधोऽस्तीत्याह यत्रापीति । कथमेवं निश्श्रीयत इत्याशङ्कय श्लोकमवतारयति अत आहेति ।