कनिष्ठायास्तर्जन्या अङ्गुष्टस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेव तीर्थानि यथाक्रमं वेदितव्यानि ॥ १९ ॥ आचमनप्रकारः-
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुंपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिहनाभिः फेनबुदुदैः ॥ २० ॥
वारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊध्र्वकाय गतानि ब्राणादीनि अद्भिरुपस्पृशेत् । अद्भिर्दव्यान्तरासंस्पृष्टाभिः । पुनरेंद्धिरित्य बग्रहणं प्रतिच्छिद्रमुदकस्पर्शनार्थम् । स्मृत्यन्तरात्–“अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्ठ योर्नाभिं हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ॥ इति । पुनस्ता एव विशिनष्टि । प्रकृतिस्थाभिः गन्धरूपरसस्पशौन्तरमप्रासाभिः । फेनबुडुदरहिताभिः । तु शब्दाद्वर्षधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥२०॥
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ।। २१ ।।
ह्यत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश्च अन्ततः अन्तैर्गतेन तालुना स्पृष्टाभिरपि । सकृदिति वैश्याद्विशेषः । चशब्दादनुपनी तोऽपि ॥ २१ ॥
मब्दैवतैर्मत्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२ ।।
प्रातःस्नानं यथाशास्त्रमब्दैवतैर्मत्रैरापोहिष्टत्येवमादिभिर्मार्जनम् । प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमत्रेण । गायत्र्यास्त त्सवितुर्वरेण्यमित्याद्यायाः प्रतिदिवसं जपेः । कार्यशब्दो यथालिङ्गे प्रत्येकमभि संबध्यते ॥ २२ ॥ प्राणायामवेिचारः-
गायत्रीं शिरसा सार्ध जपेद्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ।। २३ ।।
गायत्रीं पूर्वोक्तामापोज्योतिरित्यादिना शिरसा संयुक्ताँ उक्तव्याहृतिपूर्विकाँ प्रतिव्याहृति प्रणवेन संयुक्तां ॐभूः ॐभुवः ॐस्वरिति त्रीन्वारान्मुखनासेिका संचारिवायुं निरुन्धन् मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ सावित्रीजपप्रकारः-
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ २४ ॥
१ संस्पृष्टाभिः क. ग. २ पुनरब्रग्रहणं क. ३ अन्तेन ख. ४ मिल्यादेः ख. ५ जपः कार्यः ख.