पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

गुरुधर्मानाह-

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ।। १५ ।।

स्वगृह्योक्तविधिनोपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किंच शौचाचारांश्च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश्च शिक्षयेदित्य नेन प्रागुपनयनात्कामचारो दर्शितः । वर्णधर्मान्वर्जयित्वा स्त्रीणामप्येतत्समार्न विवाहादर्वाक । उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५ ॥

दिवा संध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ।। १६ ।।

कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः । “पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्’ इति लिङ्गात् । असावहनि संध्ययोश्च उद्धुखो मृत्रपुरीषे कुर्यात् । चकारादस्मादिरहिते देशे । रात्रैौ तु दक्षिणामुखः ॥ १ ६ ॥

गृहीतशिक्षश्चोत्थाय मृद्भिरभ्युद्धदृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।। १७ ।।

किंच अनन्तरं शिश्नं गृहीत्वोत्थायोडूताभिरद्भिर्वक्ष्यमाणलक्षणाभिर्मुद्भिश्च गन्धलेपयोः क्षयकरं शौचं कुर्यात् । अतन्द्रितोऽनलस । उद्भताभिरद्भिरिति जलान्तः शौचनिषेधः । अत्र गन्धलेपक्षयकरमिति सर्वाश्रमिणां साधारणमिदं शैौचम् । मृत्संख्यानियमस्त्वदृष्टार्थः ॥ १७ ॥

अन्तर्जानुः शुचौ देश उपविष्ट उदछुखः ।
प्राग्वा ब्राह्मण तीथेन द्विजो नित्यमुपस्पृशेत् ॥ १८ ॥

शुचौ अशुचिद्रव्यासंस्पृष्टे । देश इत्र्युपादानादुपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रह्वो गच्छन्वा । उदङ्मुखः प्राञ्छुखो वेति दिगन्तर निवृत्तिः । शुचौ देश इत्येतस्मात्पादप्रक्षालनप्राप्तिः । ब्राह्मण तीर्थेन वक्ष्यमाण लक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृशेदा चामेत् । कथम् । अन्तर्जानुः जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥१८॥ प्राजापत्यादितीर्थान्याह-

कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थाॉन्यनुक्रमात् ।। १९ ।।


१ शिष्यं गुरुः ख . २ शैौचमिदं ख. ३ इत्युपानत् क.