पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ब्रह्मचारिप्रकरणम् २ ]
5
मिताक्षरासहिता ।

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः ।
यमापस्तम्बसंवतः कात्यायनबृहस्पती ॥ ४ ॥
स्थूलाक्षरैः युक्तः भागःपराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्रयोजकाः ।। ५ ।।

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ।। १२ ।। गर्भाधानमित्यनुगतार्थ कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद्भर्भाधान मृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे वा मासेि सीमन्तोन्नयनम् । एते च पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारकर्मत्वा त्सकृदेव कार्ये न प्रतिगर्भम् । यथाह देवलः–‘सकृच्च संस्कृता नारी सर्वगर्भषु संस्कृता । यं यं गर्भ प्रसूयेत स सर्वः संस्कृतो भवेत्’ इति । यद्वा एते आ इते आगते गर्भकोशाज्जाते कुमारे जातकर्म । एकादशेऽहनि नाम । तच्च पिता महमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्खः–‘कुलदेवतासंबद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठ मास्यन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येकं संबद्धयते ॥ ११ ॥ १२ ॥ एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह-

एवमेनः शमं याति बीजगर्भसमुद्भवम् ।

एवमुक्तन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शर्म याति । किंभूतम् । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनि मित्तं वा नतु पतितोत्पन्नत्वादि ॥ स्त्रीणां विशेषमाह-

तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समत्रकः ।। १३ ।।

एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समत्रकः कार्यः ॥ १३ ॥ उपनयनकालमाह-

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ।। १४ ।।

गर्भाधानमैदिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोप नायनम् । स्वार्थे अण । वृत्तानुसारात् । छन्दोभङ्गात् । आर्ष वा दीर्घत्वम् । अत्रे च्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे । द्वादशे इत्यर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्धया विभज्यो भयन्नाप्यनुवर्तनं कार्यम् । ‘गभदेकादशे राज्ञो गभर्भाद्धि द्वादशे विशः’ इति स्मृत्यन्तरदैर्शनात् । यथा अथ शैब्दानुशासनं, केषां शब्दानां, लौकिकानां वैदिका नामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥१४॥


१ कुमारे जाते ख. २ नामकरणम्ख. ३ अवधिं कृत्वा जन्मनो ख. ४ प्रकरणानुसारम् क. ५ वचनात ख. ६ शब्दानामिति क.