पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ आचाराध्याय
याज्ञवल्क्यस्मृतिः ।

संध्यां प्राक्प्रातरेवं हि तिष्ठदासूर्यदर्शनात् ।

प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तनात्मानमद्भिः संप्रोक्ष्य सावित्रीं जपन्प्रत्यक्संध्यामासीत । अर्थात्प्रत्यङ्घुख इति लभ्यते । आतारकोद्यात् तारकोद्यावधि । प्राक्संध्यां प्रातःसमये । एवं पूर्वोक्तविधिमाचरन्प्राङ्घुख सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः । तद्विपरीता रात्रि खण्डमण्डलस्योपलब्धिः स संधि

अग्निकार्ये ततः कुर्यात्संध्ययोरुभयोरपि ।। २५ ।।

ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्य अग्नौ कार्य समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्योत्तेन विधिना ॥ २५ ॥

ततोऽभिवादयेदृद्धानसावहमिति बुवन् ।

तदनन्तरं वृद्धान्गुरुप्रभृतीनभिवादयेत् । कथम् । असौ देवदत्तशर्माहमितेि स्वं नाम कीर्तयन् ॥

गुरुं चैवाप्युपासीत स्वाध्यायार्थे समाहितः ।। २६ ।।
आहूतश्चाप्यधीयीत लैब्धं चासै निवेदयेत् ।
हेितं तस्याचरेन्नित्यं मनोवाक्कायकर्मणि भः ।। २७ ।।

तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठत् । स्वाध्या यार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वा इहूत एवाधीयीत न स्वयं गुरुं प्रेरयेत् । यञ्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर्हितमाचरेत । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दादुरुदर्शने गौतमोत्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६ ॥ २७ ॥ अध्याप्यान्नाह-

कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ।। २८ ।।

कृतमुपकारं न विस्मरतीति कृतज्ञः । अद्रोही द्यावान् । मेधावी ग्रन्थग्रह धारणशक्तः । शुचेिबह्याभ्यन्तरशैौचवान् । कल्प आधिव्याधिरहितः । अनसू यको दोषानाविष्कैारेण गुणाविष्करणशीलः । साधुवृत्तवान् । शक्तः शुश्रुषायाम् । आप्तो बन्धुः । ज्ञानदो विद्याप्रदः । वित्तदोऽर्पणपूर्वकमर्थप्रदाता । एते गुणाः सम स्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेणाध्याप्याः ॥२८॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।


१ मुपासीत ग. २ लब्धं तसै इति ख. ३ नाविष्करणेन ख. ४ पणो वेतनभाषाबन्धस्त द्रहितं; अर्पणपूर्वकं