यञ्चोक्तं “विश्वासो नान्यतोऽस्ति न” इति तदपि निद्रातुरचेतसा त्वया स्वष्टायमानेन प्रलपितम् । किं कारणम् । नहि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह ऐकात्म्यस्य स्वत एवानुभवमात्रामकत्वात् । अत एव
सर्वप्रमाणावतारासम्भवं वक्ष्यति प्रमाणव्यवस्थायाश्रावाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् ।
नाप्रमेये स्वतःसिडेऽविश्वासः कथयमात्मनि ॥ ९ ॥
प्राप्तौ परिसंख्येति गीयत' इति वचनात् । अत्र चानात्मदर्शनस्य प्राबल्यादात्मदर्शनस्याप्राबल्यात्पाक्षिकत्वे नियमविधिरात्मा द्रष्टव्य इति । यदा चात्मानात्मदर्शने तुल्यवत्प्रातेऽहमित्यात्मस्फुरणाव्यतिरेकणानात्मनोऽपि स्फुरणात्तत्र परिसंख्येति । उभयथापि नापूर्वविधिरप्राप्त्यभावादित्यर्थः । नियमपरिसंख्ययोः सम्भवे हेतुमाह यत अनात्माद्दर्शनेनैवेति । पाक्षिकत्वेन तुल्यत्वेन वात्मानात्मदर्शनयोः प्राप्तावनात्मदर्शनव्युदासेनात्मदर्शनाय नियमपरिसंख्ये सम्भवत इत्यर्थः । यद्वा । आत्मदशर्शनस्य प्राप्तत्वादपूर्वविध्यसम्भवेऽपि तदुपासनस्याप्राप्तत्वाद्विधिरस्त्वित्यत आह अनात्मेति । आत्मोपासनमनात्मदर्शनव्युदासेनात्मदर्शनावृ त्यैव सिध्यति । आत्मदर्शनानां पौनःपुन्येन स्वत एव प्राप्तत्वात्ततश्च नोपासनेऽप्यपूर्वविधिरित्यर्थः ॥ ८८ ॥
नहि वयमिति । प्रमाणगम्ये वस्तुनि तदभावादविश्वासो भवति स्वत:सिद्धतया सततं प्रकाशमाने पुनरात्मनि न प्रमाणाभावादविश्वास इत्यर्थः । प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भकविषयोपनिपातित्वादित्यादिना चायमर्थो वर्णयिष्यत इत्याह अत एवेति । किञ्च प्रमाणादीनां सिद्धेरनुभवाधीनत्वान्नानुभवरूपस्यात्मनः सिद्धिः प्रमाधीनेत्याह प्रमाणव्यवस्थायाश्धेति । अनुभवमात्राश्रयत्वादनुभवालम्बनत्वादनुभवमात्राधीनत्वादिति यावत् । वाक्यैकगम्यमिति । वाक्य-