पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


यत्तत्तं भवति
“यत्नतो वीक्षमाणोऽपीति” तत्रापि ए“परीक्ष्य लोकानि'त्याद्या आत्मज्ञानविधायिनीः ।
 नैष्कम्र्यप्रवणाः साध्वीः श्रुतीः किं न शृणोषि ताः ॥
न“न्वामेत्येवोपासीत” “अामा वा अरे द्रष्टव्य'इत्यपूर्वविधिश्रुतेः पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नवम् । अपुरुषतन्त्रावाद्वस्तुयाथात्म्यज्ञानस्य
सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति ।
विध्युपगमेऽपि नापूर्वविधिरयम् । अत आहुः ।
 नियमः परिसंख्या वा विध्ययऽपि भवेद्यतः ।
 अनात्मादर्शनेनैव परात्मानमुपास्महे ॥ ६ ॥


 यत्पुनरुक्तं वेदान्तेषु विध्यसम्भवात्प्रामाण्यं न सम्भवतीति तद्वत्थाप्य निरस्यति यत्तूक्तमित्यादिना । आत्मज्ञानविधायिनीरिति ।

 आत्मज्ञानायाचार्योपगमनादिविधायिनीरित्यर्थः । नैष्कम्र्यप्रवणा इति फलवत्त्वमुक्तम् । साध्वीरित्युपक्रमाद्यभिमततात्पर्यवत्वम् ॥ ८७ ॥ आत्मज्ञानविधायिनीरिति यथाश्रुतमेव गृहीत्वा नियोगपरत्वं वेदान्तानां प्राप्तमिति शङ्कते नन्वात्मेत्यादिना । ज्ञानस्य प्रमाणवस्तुपरतन्त्रत्वेनेच्छया कर्त्तमकर्तुमन्यथाकर्तुमशक्यत्वाद्न्वयव्यतिरेकसिद्धफलत्वेन च विध्यनपेक्षणान्नास्य विधेयत्वं किन्तु श्रवणादेरेवेत्यभिप्रेत्य परिहरति नैवमिति । ननु “श्रोतव्यो मन्तव्य' इति श्रवणादिविधिव्यतिरेकेण “द्रष्टव्य” इति दर्शनेऽपि विधिः श्रूयत इत्याशङ्कय मैवं दर्शनस्याविधेयत्वप्रतिपादनात्प्राप्तत्वाच्च तत्रापूर्वविध्यसम्भवादिति परिहरति विध्यभ्युपगमेऽपीति । विध्यर्थो विधिप्रत्ययस्य लिङादेरर्थः । तत्रानेकत्र पाक्षिकतया प्राप्तौ नियमः । अप्राप्तौ विधिः । तुल्यवत्प्राप्तौ परिसंख्या । “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च