अपरमिस्तु पक्षे विधिः ।
परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः ।
तिनोऽपि विमध्येरन् परात्मविरोधिना ॥ ७२ ॥
इतरमिस्त पक्षे विधेरेवानवकाशत्वम् । कथम् ।
समस्तव्यस्तभतस्य ब्रह्मण्येवावतिष्ठतः ।
बूत कर्मणि को हेतुः सर्वानन्यावदर्शिनः ॥ ७३ ॥
अस्तु तह्यत्मानात्मद्वयरूपं ब्रह्म संसारदशायामपीत्याशङ्कयाह अपरास्मिस्त्विति । तस्मिन्नपि पक्षे “देवो भूत्वा देवानप्येती'ति न्यायेनाहं ब्रह्मास्मीत्युपासनयैव तत्प्रातेस्तद्विधिरेव कथंचिद्भ्युपगन्तव्यो न कर्मविधिस्तस्य केवलभेदाश्रयत्वेन स्वाभ्युपगतब्रह्मस्वरूपविरोधित्वादित्यर्थः । यद्वा । परस्य वादिनो योऽभिमत आत्मा द्वैताद्वैतरूपस्तद्विरोःधिना केवलाद्वैतज्ञानेन न मुच्येरन् किंत्वहं ब्रह्मास्मीत्युपासनयैवेत्यर्थः । अस्तु तर्हि प्रस्तुतदोपपरिहाराय केवलाभेद एवानेकरसेन ब्रह्मणेत्याशङ्कय तत्पक्षे ज्ञानविधिः कर्मविधिश्च न सम्भवतीत्याह इतरमिस्त्विति । कर्मणि को हेतुरिति । उपासनाख्ये मानसे बाह्ये च कर्मणि को हेतुर्न कश्चिन्निरस्ताशेषाधिकारब्रह्मभूतत्वादस्येत्यर्थः । केचित्त्वपरमिस्तु पक्षे विधिरित्यनात्मभूतमेव ब्रहोत्यस्मिन्पक्षे शानविपयो विधिः सम्भवति विधितः प्रवृत्तिरपि सम्भाव्यते प्रमाणवस्तुपरतन्त्रतत्त्वज्ञानादन्यस्योपासनाझानस्याक्रियारूपत्वाभावादिति भेदपक्ष एव चण्र्यत इति व्याचक्षते । नन्वस्तु विधिविधिप्रयुक्ता वा विधेयार्थविषया प्रवृत्तिरपि भवतु किं ततो भवतीत्यपेक्षायामिदं भवतीत्याह परमात्मानुकूलेनेति । उपासनाफलरूपा या मुक्तिः सा तेपां स्यान्न तु वाक्यार्थरूपतत्त्वज्ञानफलभूता मुक्तिः सम्भवतीत्यर्थः । इदानीमक्षरयोजना क्रियते । जीवे ब्रह्मदृष्टिप्रक्षेपेण यदुपासनं तदिह परमात्मानुकूलं शानं तेन ज्ञानाभ्यासेन गङ्गास्रोतोवत्सततमहं ब्रह्मास्म्यहं ब्रह्मास्मीति विजातीयप्रत्ययानन्तरितस्जातीयप्रत्ययप्रवाहीकरणेन दुःखिनो द्वैतिनोऽपि प्रमुच्येरन्न परमात्मचिरो-