पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


तत्र यदि तावद्वास्तवेनैव ब्रह्म प्राप्तमात्मस्वावृत्तेन
भाव्याकेवलमासुरमोहपिधानमात्रमेवानानिनिमितं तस्मिन्पक्षे ।
 मोहापिधानभङ्गाय नैव कर्माणि कारणम् ।
 ज्ञानेनैव फलावाझेस्तत्र कर्म निरर्थकम् ॥ ७० ॥
अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते
नापि ज्ञानं कर्मसमुचितमसमुचितं वा यस्मादन्यस्य
स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिङ्कमम् ।
 अन्यस्यान्यात्मताप्राप्तौ न कचिछेतुसम्भव
 तस्मिन् सत्यपि ना नष्टः परात्मानं प्रपद्यते ॥ ७१ ॥


 प्रथमविकल्पे दूषणमेव स्पष्टयति तत्र यदीति । असुरसम्बन्धी मोह आसुरः । मोहापिधानेति । ब्रह्मप्रात्यन्तरायभूतमोहनिवर्तकं ब्रह्मज्ञानमेव न कर्म तत्र कमपादानं निरर्थकमित्यर्थः ॥ ७० ॥

 द्वितीयविकल्पे दूषणं स्पष्टयति अनात्मरूपके त्विति । कुतः समुचितमसमुचितं वा न साधनभावं प्रतिपद्यत इत्यत आह यस्मादन्यस्येति। ब्रह्मप्राप्तिसाधकस्य स्वत एव ब्रह्मणः सकाशादन्यस्य ब्रह्मणः प्राप्ययोगात्तत्प्राप्तये साधनोपादानायोगादित्यर्थः । यस्मादन्यत्वमिति पाठे सुकरैव योजना । साधकस्यान्यत्वेऽपि ब्रह्मणस्तदनन्यत्वात्तत्प्राप्तिसम्भवात्साधनोपादानमित्यत आह ब्रह्मणोऽपीति स्वतोऽन्यत्वेऽप्यनन्यत्वसिद्धये साधनोपादानमित्यत आह तत्रैवमिति । ननु कथं हेत्वसम्भवो ज्ञानं कर्म च हेतुरस्तीत्यत आह तस्मिन्सत्यपीति । अन्यस्मिन् स्थिते स्वभावविरोधादेव नान्यात्मताप्राप्तिर्नष्टेऽपि तस्याभावादेव नान्यस्यान्यात्मताप्राप्तिरित्यर्थः ॥ ७१ ॥