पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


सर्वकर्मनिमितसम्भवासम्भवाभ्यां सर्वकर्मसङ्करश्च प्राशोति । यस्मात् ।
 सर्वजात्यादिमत्वेऽस्य नितरां हेत्वसम्भवः ।
 विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥ ७४ ॥
स्याद्विधिरध्यात्माभिमानादिति चेनैवम् । यस्मात् ।


धिना । परमात्मनोभेदसंसर्गपरित्यागपूर्वकमहमस्मि परं ब्रहोति ज वाक्यार्थविज्ञानेन मुच्येरन्निति सम्बन्धः । जीवाद्भिन्नः परमात्मा । इदं च ज्ञानमभेदप्रतिबन्धकत्वेन वस्तुविपरीतग्राहकत्वात्परमात्मविरोधीत्युच्यत इति द्रष्टव्यम् । इतरमिस्तु पक्षे विधेरेवानवकाशत्वमिति प्रत्यग्भूतमेव जीवात्मनः परमात्मतत्त्वमित्यस्मिन्पक्ष इत्यभेदपक्ष एवोच्यत इति व्याचक्षते तत्तथैवाभ्युपगम्यते अपरस्मिस्त्विति भेदपक्ष एवं । । वण्र्यत इत्येतन्न मृष्यामहे । कस्मात् । तस्यानात्मरूपके तु ब्रह्मणील्यादिनानन्तरमेव निरस्तस्य पुनरनुवृतौ तुशब्देन व्यावर्तनायोगात्पूर्वोक्तमेव ७२ ॥ ७३

 केवलाभेद एवानेकरसे ब्रह्मणीत्यस्मिन्पक्षे दोषान्तरमाह सर्वकर्मनिमित्तेति । यस्य खलु जीवाः परस्मादात्मनो भिद्यन्ते तस्य पक्षे ब्राह्मणो बृहस्पतिसवेन राजा राजसूयेन वैश्यो वैश्यस्तोमेन यजेतेत्यादिशास्त्रव्यवस्थोपपद्यते । यस्य तु पक्षे जीवाः परमात्मनो न भिद्यन्तेऽभिन्नाएव तस्य तु पक्षे जीवानां सर्वात्मकब्रह्मणैकत्वेन सर्वात्मकत्वाब्राह्मणस्य क्षत्रियादिकत्वं ब्राह्मणत्वं च भवति । एवं क्षत्रियादेरपि ब्राह्मणत्वं क्षत्रियादिकत्वं च भवति । ततश्च सर्वेषां सर्वजातिसमवायात्सर्वकर्मसङ्करः प्रसज्येतेत्यर्थः । सर्वजात्यादिमत्व इति । अस्य विदुषो जीवस्य सर्वजात्यादिमत्वे प्रतिनियतकर्मसु प्रवृत्तिहेतुर्न सम्भवति ब्राह्मणत्वादिविशेषमुपादाय हि प्रतिनियतकर्मसु प्रवर्तते विशेषश्च सर्वात्मकब्रह्माभिन्नत्वेन सर्वजातिमत्वान्नास्तीत्यर्थः ॥ ७४ ॥

 ननु यद्यपि जीवस्य ब्रह्मणा सर्वात्मकेनाभेदोऽस्ति तथापि ब्राह्म-