पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाऽध्यायः ।। न चाध्यात्माभिमानोऽपि विदुषोऽस्यासुराचातः । विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥ ७५ ॥ अज्ञानकार्यवाञ्च न समकालं नापि क्रमेण ज्ञानकर्म णोर्वखवस्तुतन्त्रावात्सङ्गतिरस्तीयेवं निराकृतोऽपि काशं कुश वावलम्ब्याह । अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् । स करोत्येव कर्माणि को ह्यज्ञ विनिवारयेत् ॥ ७६ ॥ णोऽहं क्षत्रियोऽहमिति जालयादिसमवायिस्थूलदेहाभिमाननिमित्तो भे दोऽपि सम्भवति ततश्चाधिकारिव्यवस्थया कर्मव्यवस्था घटत इति शङ्कते स्याद्विधिरिति । परिहरति नैवं यस्मादिति । विदुषस्तत्ववि दोऽध्यात्माभिमानः शरीरराद्यभिमानो नास्ति तस्यासुरमोहनिमित्त त्वेन तत्त्वज्ञानादेव निवृत्तेर्देहाद्यभिमाननिवृत्तौ चाधिकारव्यवस्था दूरा पास्ता स्यादित्यर्थः । तर्हि देहाद्यभिमानसिद्धये ज्ञानिनोऽपि मोहोऽभ्यु पगम्यत इत्यत आह विदुषोऽपीति । ब्रह्मज्ञानस्याज्ञानानिवर्तकत्वे तस्य निष्फलत्वं प्रसज्येत ततश्च विदुषो नास्त्येव मोह इत्यभ्युपगन्तव्य मित्यर्थः ॥ ७५ ॥ वृत्तानुद्रवणपूर्वकमुत्तरश्लोकस्य सङ्गतिमाह अज्ञानकार्यत्वादिति । अज्ञानकार्यत्वेऽपि वस्तुपरतन्त्रस्य ज्ञानस्यावस्तुपरतन्त्रस्य च कर्मण समकालं क्रमेण वा सङ्गतिर्न सम्भवतीत्येवमधस्तनश्लोकेन निरराकृत मपि विदुषोऽनुभवसिद्धस्य देहाद्यभिमानस्य युक्तया निराकरणमयुक्त मित्येतद्ालाम्ब्य पुनः प्रत्यवतिष्ठत इत्यर्थः । अथाध्यात्ममिति । अवग तपरमार्थतत्वोऽपि पुनः कार्यकारणसङ्कतेऽहमभिमानवान्भवतीत्यर्थः । परिहरति आश्रित इति । एवं चेन्नासौ विदितपरमार्थतत्त्वः किंत्वज्ञ एव विपरीतदर्शनवत्वात् । न वयमज्ञस्य कर्मसम्बन्धं वारयामः किंतु ज्ञानिन एव । त्वयापि न ज्ञानिनः सम्बन्धः प्रतिपादितस्ततश्च नास्माकं क्षतिरित्यर्थः ॥ ७६ ॥