शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् १३

विकिस्रोतः तः

अन्नप्राणयोरेकब्रह्मोपासनाविधायकं ब्राह्मणम्

अन्नं ब्रह्मेत्येक आहुः। तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः - १४.८.१३.१

तद्ध स्माह प्रातृदः पितरम्। किं स्विदेवैवं विदुषे साधु कुर्यात्किमेवास्मा असाधु कुर्यादिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति - १४.८.१३.२

तस्मा उ हैतदुवाच। वीत्यन्नं वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रतानि सर्वाणि ह वा अस्मिन्भूतानि विशन्ते सर्वाणि भूतानि रमन्ते य एवं वेद - १४.८.१३.३