सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

सुजातपक्ष्माम[]भिरक्तकण्ठीं वने []प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥
अव्यक्तरेखामिव []चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ॥
क्षतप्ररूढामिव []बाणरेखां वायु[]प्रभिन्नामिव मेघरेखाम् ॥ २६ ॥
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ॥
बभूव []दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५ ॥


षष्ठः सर्गः ॥ ६ ॥

हनुमता पुनर्लङ्काभरणायमानाद्भुततररावणभवनमेत्य तत्समीपस्थप्रहस्तादिनानानामकरराक्षसगृहेषु सीतान्वेषणपूर्वकं रावणगृहप्रवेशनं ॥ १ ॥

स निकामं विमानेषु []विषण्णः कामरूपधृक् । विचचार [][]पुनर्लङ्कां लाघवेन समन्वितः ॥ १ ॥
[१०]आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २ ॥


वस्थानकाले वरार्होत्तमनिष्ककण्ठीं वरार्हः उत्तमश्चरनिष्कः कण्ठे यस्याः तां उरःकण्ठसंबन्धी भूषणविशेषो निष्कः । अभिरक्तकण्ठीं स्रिग्धकण्ठीम् ॥ २५ ॥ अव्यक्तरेखां अव्यक्तस्वरूपां चन्द्ररेखां चन्द्रकलामिव स्थितां । अत्यन्तकृशत्वे कान्तिहीनत्वे च दृष्टान्तोयं । पांसुप्रदिग्धां पांसुकलुषितां हेमरेखां कनकशालाकामिव स्थितां । स्वतःशुद्धस्वभावस्य आगन्तुकमालिन्ये दृष्टान्तोयं । क्षतप्ररूढां क्षतेन प्ररूढां औषधादिना समाहितां । अन्तःशल्यदोषवतीं बहिस्समाहितां । बाणरेखां बाणक्षतिमिव स्थितां । अन्तर्वेदनातिशये दृष्टान्तोयं । वायुप्रभग्रामिव मेघलेखां

पुनरसमाधेयशैथिल्ये दृष्टान्तोयं ॥ २६ ॥ चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण सपदीत्यर्थः । मन्दो मुग्ध इव दुःखाभिहतो बभूव । "मुग्धो मन्दो विवर्णश्च" इति हलायुधः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्यानं पञ्चमः सर्गः ॥ ५ ॥


 स निकाममित्यादि । विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेनवेगे...


निविष्टः उदरेयस्यास्तांमदनमातरं ॥ २४ ॥ स० उष्णार्दितां रामविरहतप्तां । अनुसृतंअस्रंअश्रुयस्य सचासौकण्ठश्चतेनसहवर्ततइतितथातां । सानुसृतास्रकण्ठीमित्यादिस्थानत्रयेपिङीबार्षः । यद्वा 'स्वाङ्गाञ्च' इतिसूत्रस्थचशब्दसूचिता'ङ्गगात्रकण्ठेभ्यइतिवक्तव्यं' इतिवृत्तिकृदुक्तेर्ङीष् । नचभाष्यानुक्तेरप्रामाणिकाइतिप्रामाणिकाः 'अप्रामाणिकाएव' इतिभट्टोजिनागोजिभट्टोक्तेःकथमितिशङ्क्यं । अनुवृत्त्यैवङीषिसिद्धेचशब्दस्यवैयर्थ्यादेवमादिरूपाणांदुरुपपादनत्वावर्णनाञ्च 'अप्रतिषिद्धमनुमतं' इत्युक्तेर्महाभाष्यकारस्यम तमितिसूचितत्वात्कवेर्महत्त्वाच्च । अश्रुकण्ठामितिवापाठइतेिनागोजिभट्टोक्तिरनुप्रासभङ्गभीरुभिरनादरणीया । अभिरक्तकण्ठींसुस्वरां । नीलकण्ठीं मयूरीं ॥ २५ ॥ इतिपञ्चमःसर्गः ॥ ५ ॥

 स० विमानेषुसप्तभौमाष्टभौमादिप्रासादेषु विचचार विचारयामास ॥ रामानु० सःलङ्कायामन्विष्टायामपिवैदेह्याअदर्शनेनविषण्णं विचचारपुनर्लङ्कामितिसम्यक् । कपिर्लङ्कामितिपाठेपिवैदेह्याअन्वेषणेनविषण्णस्यहनुमतोऽन्वेषणकर्तृत्वाभिधानात्पुनरन्वेषणंकृतवानित्ययमर्थोलभ्यते ॥ १ ॥ रामानु० आससादाथलक्ष्मीवान्राक्षसेन्द्रनिवेशनंइतिरावणभवनंप्रविष्टस्यहनुमतः पुनरपिरावणभवनप्राप्त्यभिधानान्मध्येलङ्कान्वेषणाभिधानाञ्चपूर्वंरावणभवनंप्रविष्टोहनुमांस्तदानींजाग्रद्बहुरक्षस्संकीर्णतयासीतान्वेषणावसरोऽयंनभवतीतिम-

  1. ग. मभिराम.
  2. ख. ग. झ. ञ. ट. प्रवृत्तामिव.
  3. क. ङ.---झ. ट. चन्द्रलेखां.
  4. ङ. झ. ट. वर्णरेखां.
  5. ग. घ. ङ. ट. प्रभग्नामिव. ञ. प्रभुग्नामिव. क. प्रणुन्नामिव.
  6. ग. ङ. झ. ट. दुःखोपहतः.
  7. क. ग.---ट. विचरन्काम.
  8. क. ग.---ट. कपिर्लङ्कां.
  9. क. ग.---ट. कपिर्लङ्कां.
  10. क. ङ. झ. ञ. ट. आससादच. घ. आससादस.