पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[ सुन्दरकाण्दम् ५
श्रीमद्वाल्मीकिरामायणम् ।

[[१]सेवितां राक्षसैर्भीमैर्बलिभिः शस्त्रपाणिभिः] ॥ ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ ४ ॥
हसितोत्कृष्टनिनदैस्तूर्यघोष[२]पुरस्सरैः ॥ वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ॥
[३]गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ५ ॥
प्रजज्वाल [४]तदा लङ्का रक्षोगणगृहैः शुभैः ॥ ६ ॥
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥ वर्धमानगृहैश्चापि सर्वतः [५]सुविभूषिता ॥
गृहमुख्यैः पुरी [६]रम्या बभासे द्यौरिवाम्बुदैः ॥ ७ ॥
तां चित्रमाल्याभरणां कपिराजहितंकरः ॥ [७]राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च ॥ ८ ॥
भवनाद्भवनं गच्छन्ददर्श पवनात्मजः ॥ विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ ९ ॥
शुश्राव [८]मधुरं गीतं त्रिस्थानस्वरभूषितम् ॥ स्त्रीणां [९]मदसमृद्धानां दिवि चाप्सरसामिव ॥ १० ॥
शुश्रावं काञ्चीनिनदं नूपुराणां च निस्वनम् ॥ सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥
आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥ ११ ॥
शुश्राव जपतां तत्र मन्त्रान्रक्षोगृहेषु वै ॥ १२ ॥
स्वाध्यायनिरतांश्चैव यातुधानान्ददर्श सः ॥ रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि ॥ १३ ॥
राजमार्गं समावृत्य स्थितं [१०]रक्षोबलं महत् ॥ ददर्श मध्यमे गुल्मे [११]रावणस्य चरान्बहून् ॥ १४ ॥
दीक्षिताञ्जटिलान्मुण्डान्गो[१२]जिनाम्बरधारिणः ॥ दर्भमुष्टिप्रहरणानग्निकुण्डायुधां[१३]स्तथा ॥ १५ ॥


शत्रुपुरप्रवेशे वामं निद्ध्याञ्चरणं नृपालः" इति ॥ २-४ ॥ तूर्यघोषपुरस्सरैः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वज्राङ्कुशनिकाशैः वज्रमङ्कुशो यस्य सः वज्राङ्कुशः ऐरावतः ततुल्यैः तद्वच्छुभ्रैरित्यर्थः । वज्राङ्कुशतुल्यसंस्थानैर्वा । वज्रजालविभूषितैः वज्रो रत्नविशेषः । गृहमेधैः गृहश्रेष्ठैः । "उपमितं व्याघ्रादिभिः---" इत्युपमितसमासः ॥ ५-६ ॥ पद्मस्वस्तिकसंस्थितैः पद्मस्वस्तिकनामभ्यां संस्थानविशेषाभ्यां संस्थितैः । वर्धमानगृहैः वर्धमाननाम्ना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तरभयान्न लिख्य-

न्ते ॥ ७-९ ॥ त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरःकण्ठशिरस्सु भवैः स्वरैर्भूषितं । ते च मन्द्रमध्यताराः ॥ १० ॥ सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनादाः संभवन्ति तान् आस्फोटितनिनादान् व्यत्यस्तकरतलाभ्यां भुजाग्रा स्फालनशब्दान् । क्ष्वेलितान् सिंहनादान् ॥ ११ ॥ ... मन्त्रान् ऋग्वेदादीन् ॥ १२ ॥ स्वाध्यायनिरतं ... ब्रह्मभागपाठनिरतान् ॥ १३ ॥ मध्यमे गुल्मे न... मध्यस्थितसैन्यसमाजे । चरान् स्वजनवृत्तान्तजिज्ञ.. सया प्रधानप्रेरितान् प्रणिधीन् ॥ १४ ॥ गोजिन... म्बरधारिण: वृषभचर्मरूपवस्रधारिणः । दर्भमुष्टि....

वलंब्यप्रविष्टइतिसंबन्धः ॥ ३ ॥ रामानु० हसितोद्धुष्टनिनदैः हसितोच्चध्वनिभिः । गृहमुख्यैरितिपाठः ॥५॥ ति० स्वस्तिकाख्यगृह.. आकृत्याचतुरश्राः । "चतुश्शालाचतुर्द्वारासर्वतोभद्रसंज्ञिता । पश्चिमद्वाररहितामध्यावर्ताहयानना । दक्षिणद्वाररहितावर्धमान... धनप्रदा । प्राग्द्वाररहिता स्वस्तिकाख्यापुत्रधनप्रदा' इत्युक्तेः पद्मस्वस्तिकवर्धमानाख्यगृहाः प्रभुगृहभेदाइत्यर्थः ॥ ७ ॥ ति० दीक्षितजटिलमुण्डाः गृहिवनियतयः । गोजिनंगवाजिनं तद्वाससः । अंबरवाससः विवाससः । ननुलङ्कायाभारतखण्डाः... हिर्भावेनकर्मभूमित्वाभावात्कथंतत्ररक्षसांदीक्षितत्वमितिचेन्न । नित्यकर्मस्वन्यदेशेप्यधिकारात् । रावणादेस्तपोमाहात्म्यात्तत्रकाम्य... कर्मसिद्धिरपीत्यन्यत् । 'यथात्वष्टुरमेन्द्रमेवसोममाजह्रे' इत्यादिशतपथोक्तरीत्या । एतेनदेवानामीषद्विकृतानपियज्ञान्दर्शयतीति... भाष्यरीत्याचाङ्गवैकल्येप्यनुष्ठितात्कर्मणोवृत्रोत्पत्तिरूपकामनासिद्धिस्तथाप्रकृतेदेशरूपाङ्गवैकल्येपितत्सिद्धिः । रक्षसामपिदेवयो...

  1. इदमर्धं क. च. छ. ज. पाठेषु.
  2. ङ. छ.---ट. पुरस्कृतैः.
  3. क. ग. घ. गृहमुख्यैः.
  4. ख. पुरी.
  5. क. ख. घ.---ट. विभूषितै.
  6. क. घ. च. छ. ज. ञ. भूयो.
  7. ख. ड.---ज. ञ. ट. राघवार्थे.
  8. ङ.---ज. ञ. ट. रुचिरं.
  9. ङ.---झ. ट. मदनविद्धानां.
  10. क. ख. ग. ङ.---ज. ञ. ट. रक्षोगणं.
  11. क. ख. ग. ङ.---ट. राक्षसस्य.
  12. च. छ. झ. जिनांबरवाससः.
  13. ख. स्तदा.